अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 16
म॒हान्तं॒ कोश॒मुद॑चा॒भि षि॑ञ्च सविद्यु॒तं भ॑वतु॒ वातु॒ वातः॑। त॒न्वतां॑ य॒ज्ञं ब॑हु॒धा विसृ॑ष्टा आन॒न्दिनी॒रोष॑धयो भवन्तु ॥
स्वर सहित पद पाठम॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । अ॒भि । सि॒ञ्च॒ । स॒ऽवि॒द्यु॒तम् । भ॒व॒तु॒ । वातु॑ । वात॑: । त॒न्वता॑म् । य॒ज्ञम् । ब॒हु॒ऽधा । विऽसृ॑ष्टा: । आ॒ऽन॒न्दिनी॑: । ओष॑धय: । भ॒व॒न्तु॒ ॥१५.१६॥
स्वर रहित मन्त्र
महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः। तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥
स्वर रहित पद पाठमहान्तम् । कोशम् । उत् । अच । अभि । सिञ्च । सऽविद्युतम् । भवतु । वातु । वात: । तन्वताम् । यज्ञम् । बहुऽधा । विऽसृष्टा: । आऽनन्दिनी: । ओषधय: । भवन्तु ॥१५.१६॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 16
विषय - वृष्टि की प्रार्थना और गुणों का उपदेश।
पदार्थ -
[हे परमात्मन् !] (महान्तम्) बड़े (कोशम्) धनभण्डार को (उत् अच) ऊँचा कर, (अभि) सब ओर से (सिञ्च) बरसा दे। (सविद्युतम्) समान विविध प्रकाशित [जगत्] (भवतु) होवे। (वातः) वायु (वातु) [अनुकूल] चले। (बहुधा) अनेक प्रकार से (विसृष्टाः) फैली हुई (ओषधयः) चावल, यव आदि ओषधें (यज्ञम्) यज्ञ को (तन्वताम्) फैलावें, और (आनन्दिनीः=०-न्यः) आनन्दयुक्त (भवन्तु) होवें ॥१६॥
भावार्थ - परमात्मा के अनुग्रह से मनुष्य प्रयत्नपूर्वक धन संचय करें और वायु वृष्टि आदि से उपकार लेकर यज्ञ अर्थात् अनेक विज्ञानयुक्त कर्मों को फैलावें और अन्न आदि पदार्थ को पुष्टिकारक करें ॥१६॥ इस मन्त्र का प्रथम पाद (महान्तं.....षिञ्च) ऋ० ५।८३।८। में है। इति तृतीयोऽनुवाकः ॥
टिप्पणी -
१६−(महान्तम्) विशालम् (कोशम्) कुश श्लेषे-घञ्। हिरण्यादिस्थापनगृहम्। मेघम्-निघ० १।१०। (उत् अच) अञ्चु गतौ। ऊर्ध्वं प्राप्नुहि। उत्थापय (अभि) अभितः (सिञ्च) वर्षय (सविद्युतम्) स+वि+द्युत दीप्तौ-क। समानं विविधं प्रकाशितं जगत् (भवतु) (वातु) अनुकूलं संचरतु (वातः) पवनः (तन्वताम्) विस्तारयन्तु (यज्ञम्) यजनीयं कर्म (बहुधा) नानाप्रकारेण (विसृष्टाः) उत्पन्नाः। वितीर्णाः (आनन्दिनीः) आनन्द-इनि, ङीप्। आनन्दिन्यः। हर्षयुक्ताः (ओषधयः) व्रीहियवतरुगुल्मादयः ॥