अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 3
समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पां वेगा॑सः॒ पृथ॒गुद्वि॑जन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्तां वी॒रुधो॑ वि॒श्वरू॑पाः ॥
स्वर सहित पद पाठसम् । ई॒क्ष॒य॒स्व॒ । गाय॑त: । नभां॑सि । अ॒पाम् । वेगा॑स: । पृथ॑क् । उत् । वि॒ज॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । वी॒रुध॑: । वि॒श्वऽरू॑पा: ॥१५.३॥
स्वर रहित मन्त्र
समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥
स्वर रहित पद पाठसम् । ईक्षयस्व । गायत: । नभांसि । अपाम् । वेगास: । पृथक् । उत् । विजन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । वीरुध: । विश्वऽरूपा: ॥१५.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 3
विषय - वृष्टि की प्रार्थना और गुणों का उपदेश।
पदार्थ -
[हे ईश्वर !] (गायतः) गान करनेवाले लोगों को (नभांसि) बादलों का (समीक्षयस्व) दर्शन करा। (अपाम्) जल के (वेगासः) प्रवाह (पृथक्) नाना प्रकार से (उद् विजन्ताम्) उमड़कर चलें। (वर्षस्य) वर्षा की (सर्गाः) धाराएँ (भूमिम्) भूमिको (महयन्तु) समृद्ध करें, (विश्वरूपाः) नाना रूप (वीरुधः) झाड़ लताएँ (पृथक्) नाना प्रकार से (जायन्ताम्) उपजें ॥३॥
भावार्थ - मन्त्र २ के समान है ॥३॥
टिप्पणी -
३−(समीक्षयस्व) द्विकर्मकः। सन्दर्शय (गायतः) स्तुवतो लोकान् (नभांसि) नहेर्दिवि भश्च। उ० ४।२११। इति णह बन्धने-असुन् हस्य भः। यद्वा णभ हिंसायाम्-असुन्। नभ उदकम्-निघ० १।१२। नभ आदित्यो भवति नैता भासां ज्योतिषां प्रणयोऽपि वा भन एव स्याद् विपरीतो नन भातीति वैतेन द्यौव्यार्ख्याता-निरु० २।१४। अभ्राणि (अपाम्) उदकानाम् (वेगासः) वेगा प्रवाहाः (पृथक्) भिन्नभिन्नप्रकारेण (उद् विजन्ताम्) ओविजी भयचलनयोः। उच्चलन्तु (वीरुधः) विरोहणशीला आरण्या ओषधिवनस्पतयः। अन्यत् पूर्ववत् ॥