अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 2
सूक्त - मृगारोऽअथर्वा वा
देवता - भवाशर्वौ रुद्रो वा
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
ययो॑रभ्य॒ध्व उ॒त यद्दू॒रे चि॒द्यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठययो॑: । अ॒भि॒ऽअ॒ध्वे । उ॒त । यत् । दू॒रे । चि॒त् । यौ । वि॒दि॒तौ । इ॒षु॒ऽभृता॑म् । असि॑ष्ठौ । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स:॥२८.२॥
स्वर रहित मन्त्र
ययोरभ्यध्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठययो: । अभिऽअध्वे । उत । यत् । दूरे । चित् । यौ । विदितौ । इषुऽभृताम् । असिष्ठौ । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस:॥२८.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 2
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
(ययोः) जिन दोनों का [वह सब है] (यत् चित्) जो कुछ (अभ्यध्वे) समीप में (उत) और (दूरे) दूर देश में है। (यौ) जो तुम दोनों (इषुभृताम्) हिंसाकारियों के (असिष्ठौ) अत्यन्त गिरानेवाले (विदितौ) विदित हो। (यौ) जो तुम दोनों (अस्य) इस (द्विपदः) दो पाये..... म० १ ॥२॥
भावार्थ - परमेश्वर सर्वान्तर्यामी और शत्रुनाशक है, हम उसकी उपासना से सदा पुरुषार्थी रहें ॥२॥
टिप्पणी -
२−(ययोः) भवाशर्वयोः (अभ्यध्वे) अभि अध्वनः अभ्यध्वः। उपसर्गादध्वनः। पा० ५।४।८५। इति अच् समासान्तः। समीपदेशे (उत) अपि (यत् चित्) यत्किञ्चित् (दूरे) दूरदेशे (यौ) भवाशर्वौ (विदितौ) प्रज्ञातौ (इषुभृताम्) ईष हिंसायाम्-कु, ह्रस्वश्च। डुभृञ् धारणपोषणयोः-क्विप्-तुक् च। हिंसाधारकाणाम् (असिष्ठौ) तुश्छन्दसि। पा० ५।३।५९। इति असितृ-इष्ठन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। इति तृलोपः। असितृतमौ। क्षेप्तृतमौ। अन्यत् पूर्ववत्-म० १ ॥