अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 6
सूक्त - मृगारोऽअथर्वा वा
देवता - भवाशर्वौ रुद्रो वा
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यः कृ॑त्या॒कृन्मू॑ल॒कृद्या॑तु॒धानो॒ नि तस्मि॑न्धत्तं॒ वज्र॑मु॒ग्रौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठय: । कृ॒त्या॒ऽकृत् । मू॒ल॒ऽकृत् । या॒तु॒ऽधान॑: । नि । तस्मि॑न् । ध॒त्त॒म् । वज्र॑म् । उ॒ग्रौ॒ । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२८.६॥
स्वर रहित मन्त्र
यः कृत्याकृन्मूलकृद्यातुधानो नि तस्मिन्धत्तं वज्रमुग्रौ। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठय: । कृत्याऽकृत् । मूलऽकृत् । यातुऽधान: । नि । तस्मिन् । धत्तम् । वज्रम् । उग्रौ । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 6
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
(यः) जो (कृत्याकृत्) हिंसाकारी (मूलकृत्) मूल कतरनेवाला और (यातुधानः) पीड़ा देनेवाला पुरुष है, (तस्मिन्) उसपर (उग्रौ) हे उग्र स्वभाववाले तुम दोनों (वज्रम्) वज्र (निधत्तम्) गिरावो (यौ) जो तुम दोनों (अस्य) इस (द्विपदः) दो पाये समूह के और (यौ) जो तुम दोनों (चतुष्पदः) चौपाये संसार के (ईशाथे) ईश्वर हो, (तौ) वे तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥६॥
भावार्थ - परमेश्वर दुष्टनाशक और शिष्टरक्षक है, उसकी ही उपासना से मनुष्य बलवान् होवें ॥६॥
टिप्पणी -
६−(यः) शत्रुः (कृत्याकृत्) अ० ४।१७।४। हिंसाकारकः (मूलकृत्) मूल+कृती छेदने-क्विप्। मूलकर्तकः। प्रतिष्ठाछेदकः (यातुधानः) अ० १।७।१। यातनाकरः। पीडाकारकः (तस्मिन्) यातुधाने (निधत्तम्) निक्षिपतम् (वज्रम्) अ० १।७।७। दण्डरूपं कुठारम् (उग्रौ) प्रचण्डस्वभावौ। अन्यत् पूर्ववत् म० १ ॥