अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 6
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
एयम॑ग॒न्नोष॑धीनां वी॒रुधां॑ वी॒र्या॑वती। अ॑जशृ॒ङ्ग्य॑राट॒की ती॑क्ष्णशृ॒ङ्गी व्यृ॑षतु ॥
स्वर सहित पद पाठआ । इ॒यम् । अ॒ग॒न् । ओष॑धीनाम् । वी॒रुधा॑म् । वी॒र्य᳡ऽवती । अ॒ज॒ऽशृ॒ङ्गी । अ॒रा॒ट॒की । ती॒क्ष्ण॒ऽशृ॒ङ्गी । वि । ऋ॒ष॒तु॒ ॥३७.६॥
स्वर रहित मन्त्र
एयमगन्नोषधीनां वीरुधां वीर्यावती। अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥
स्वर रहित पद पाठआ । इयम् । अगन् । ओषधीनाम् । वीरुधाम् । वीर्यऽवती । अजऽशृङ्गी । अराटकी । तीक्ष्णऽशृङ्गी । वि । ऋषतु ॥३७.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 6
विषय - गन्धर्व और अप्सराओं के गुणों का उपदेश।
पदार्थ -
(ओषधीनाम्) तापनाशक (वीरुधाम्) विविध प्रकार से उगनेवाली प्रजाओं के बीच (वीर्यावती) बड़ी सामर्थ्यवाली (इयम्) यह शक्ति (आ अगन्) प्राप्त हुई है। वही (अजशृङ्गी) जीवात्मा का दुःख काटनेवाली, (अराटकी) शीघ्र प्राप्त होनेवाली, (तीक्ष्णशृङ्गी) बड़े तेजवाली शक्ति परमेश्वर (वि ऋषतु) व्याप्त होवे ॥६॥
भावार्थ - परमपिता परमेश्वर की शक्ति सब पदार्थों में व्यापक है, उसके ज्ञान से हम लोग अपनी उन्नति करें ॥६॥
टिप्पणी -
६−(इयम्) समीपे वर्तमाना (आ अगन्) गमेर्लुङि छान्दसं रूपम्। आगमत्। आगता (ओषधीनाम्) तापनाशयित्रीणां मध्ये (वीरुधाम्) विरोहणशीलानां प्रजानां मध्ये (वीर्यावती) छान्दसो दीर्घः। अतिशयेन सामर्थ्ययुक्ता (अजशृङ्गी) म० २। अजस्य जीवात्मनो दुःखनाशनी शक्तिः (अराटकी) कृञादिभ्यः संज्ञायां वुन्। उ० ५।३५। इति अर+अट गतौ-वुन्। ङीष्। अरं शीघ्रम् अटति सा। शीघ्रगामिनी (तीक्ष्णशृङ्गी) म० २। शृङ्गाणि ज्वलतोनाम-निघ० १।१७। तीव्रतेजाः (वि ऋषथुः) ऋषी गतौ। व्याप्नोतु ॥