अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 5
ये॒धस्ता॒ज्जुह्व॑ति जातवेदो ध्रु॒वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। भूमि॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । अ॒धस्ता॑त् । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । ध्रु॒वाया॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । भूमि॑म् । ऋ॒त्वा । ते॒ । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.५॥
स्वर रहित मन्त्र
येधस्ताज्जुह्वति जातवेदो ध्रुवाया दिशोऽभिदासन्त्यस्मान्। भूमिमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । अधस्तात् । जुह्वति । जातऽवेद: । ध्रुवाया: । दिश: । अभिऽदासन्ति । अस्मान् । भूमिम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 5
विषय - शत्रु के नाश करने का उपदेश।
पदार्थ -
(जातवेदः) हे ज्ञानवान् परमेश्वर ! (ये) जो लोग (अधस्तात्) नीचे की ओर में (ध्रुवायाः) स्थिर (दिशः) दिशा से (अस्मान्) हमको (जुह्वति) खाते और (अभिदासन्ति) चढ़ाई करते हैं। (ते) वे (भूमिम्) [तुझ] सर्वाधार को (ऋत्वा) पाकर.... म० १ ॥५॥
टिप्पणी -
५−(अधस्तात्) दिक्शब्देभ्यः०। पा० ५।३।२७। इति अधर-अस्ताति। अस्ताति च। पा० ५।३।४०। इति अध् इत्यादेशः। अधोभागे (ध्रुवायाः) अ० ३।२६।५। स्थिरायाः (भूमिम्) अ० १।११।२। भवन्ति भूतानि यस्यां सा भूमिः, ईश्वरनाम-सत्यार्थप्रकाशे, समुल्लासे १। सर्वाधारं त्वाम् ॥