अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 8
सूक्त - शुक्रः
देवता - दिशः
छन्दः - पुरोऽतिशक्वरीपादयुग्जगती
सूक्तम् - शत्रुनाशन सूक्त
ये दि॒शाम॑न्तर्दे॒शेभ्यो॒ जुह्व॑ति जातवेदः॒ सर्वा॑भ्यो दि॒ग्भ्योऽभि॒दास॑न्त्य॒स्मान्। ब्रह्म॒र्त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । दि॒शाम् । अ॒न्त॒:ऽदे॒शेभ्य॑: । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । सर्वा॑भ्य: । दि॒क्ऽभ्य: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । ब्रह्म॑ । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.८॥
स्वर रहित मन्त्र
ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्त्यस्मान्। ब्रह्मर्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । दिशाम् । अन्त:ऽदेशेभ्य: । जुह्वति । जातऽवेद: । सर्वाभ्य: । दिक्ऽभ्य: । अभिऽदासन्ति । अस्मान् । ब्रह्म । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 8
विषय - शत्रु के नाश करने का उपदेश।
पदार्थ -
(जातवेदः) हे ज्ञानवान् परमेश्वर ! (ये) जो लोग (दिशाम्) दिशाओं के (अन्तर्देशेभ्यः) मध्य देशों से (सर्वाभ्यः) सब (दिग्भ्यः) दिशाओं से (अस्मान्) हमको (जुह्वति) खाते और (अभिदासन्ति) चढ़ाई करते हैं। (ते) वे (ब्रह्म) [तुझ] ब्रह्म को (ऋत्वा) पाकर (पराञ्चः) पीठ देते हुए (व्यथन्ताम्) व्यथा में पड़ें। (एनान्) इनको (प्रतिसरेण) [तुझ] अग्रगामी के साथ (प्रत्यक्) उलटा (हन्मि) मैं मारता हूँ ॥८॥
भावार्थ - मनुष्य उस सर्वनियन्ता परब्रह्म का आश्रय लेकर विचारपूर्वक अपने सब विघ्नों का नाश करके आनन्द भोगें ॥८॥ इत्यष्टमोऽनुवाकः ॥ इति नवमः प्रपाठकः ॥ इति चतुर्थं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाडाधिष्ठितबड़ोदेपुरीगतश्रावणमास- परीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये चतुर्थकाण्डं समाप्तम् ॥
टिप्पणी -
८−(दिशाम्) दिशानाम् (अन्तर्देशेभ्यः) अन्तरालेभ्यः (सर्वाभ्यः) सकलाभ्यः (दिग्भ्यः) दिशाभ्यः (ब्रह्म) अ० १।८।४। सर्वेभ्यो बृहत्त्वाद् ब्रह्म। तं त्वां परमेश्वरम्। अन्यत् पूर्ववत् ॥