अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - सर्पविषनाशन सूक्त
यत्ते॒ अपो॑दकं वि॒षं तत्त॑ ए॒तास्व॑ग्रभम्। गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मं भि॒यसा॑ नेश॒दादु॑ ते ॥
स्वर सहित पद पाठयत् । ते॒ । अप॑ऽउदकम् । वि॒षम् । तत् । ते॒ । ए॒तासु॑ । अ॒ग्र॒भ॒म् । गृ॒ह्णामि॑ । ते॒ । म॒ध्य॒मम् । उ॒त्ऽत॒मम् । रस॑म् । उ॒त । अ॒व॒मम् । भि॒यसा॑ । ने॒श॒त् । आत् । ऊं॒ इति॑ । ते॒ ॥१३.२॥
स्वर रहित मन्त्र
यत्ते अपोदकं विषं तत्त एतास्वग्रभम्। गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥
स्वर रहित पद पाठयत् । ते । अपऽउदकम् । विषम् । तत् । ते । एतासु । अग्रभम् । गृह्णामि । ते । मध्यमम् । उत्ऽतमम् । रसम् । उत । अवमम् । भियसा । नेशत् । आत् । ऊं इति । ते ॥१३.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 2
विषय - दोषनिवारण के लिये उपदेश।
पदार्थ -
(यत्) जो कुछ (ते) तेरा (अपोदकम्) जल [रुधिर] का सुखानेवाला (विषम्) विष है, (ते) तेरे (तत्) उसको (एतासु) इन [नाड़ियों] के भीतर (अग्रभम्) मैंने पकड़ लिया है। (ते) तेरे (मध्यमम्) मध्य के, (उत्तमम्) ऊपर के (उत) और (अवमम्) नीचे के (रसम्) रस को (गृह्णामि) मैं पकड़ता हूँ। (आत्) और (ते) वह तेरा (उ) निश्चय करके (भियसा) भय से (नशत्) नष्ट हो जावे ॥२॥
भावार्थ - मनुष्य विषरूपी आत्मदोषों को सर्वथा नष्ट करे ॥२॥
टिप्पणी -
२−(यत्) यत्किञ्चित् (ते) तव (अपोदकम्) अपगतजलम् (विषम्) (तत्) (ते) तव (एतासु) नाडीषु वर्तमानम् (अग्रभम्) अहं गृहीतवान् (गृह्णामि) आददे (ते) तव (मध्यमम्) मध्यदेशे भवम् (उत्तमम्) उपरिदेशे भवम् (रसम्) विषप्रभावम् (उत) अपि च (अवमम्) अवद्यावमा०। उ० ५।५४। इति अव रक्षणादौ−अम। अधमम् (भियसा) भूरञ्जिभ्यां कित्। उ० ४।२१७। ञिभी−असुन्। भयेन (नेशत्) नश्येत् (आत्) अनन्तरम् (उ) अवश्यम् (ते) तव रसः ॥