अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 11
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
गौरे॒व तान्ह॒न्यमा॑ना वैतह॒व्याँ अवा॑तिरत्। ये केस॑रप्राबन्धायाश्चर॒माजा॒मपे॑चिरन् ॥
स्वर सहित पद पाठगौ: । ए॒व । तान् । ह॒न्यमा॑ना । वै॒त॒ऽह॒व्यान् । अव॑ । अ॒ति॒र॒त् ।ये । केस॑रऽप्राबन्धाया: । च॒र॒म॒ऽअजा॑म् । अपे॑चिरन् ॥१८.११॥
स्वर रहित मन्त्र
गौरेव तान्हन्यमाना वैतहव्याँ अवातिरत्। ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥
स्वर रहित पद पाठगौ: । एव । तान् । हन्यमाना । वैतऽहव्यान् । अव । अतिरत् ।ये । केसरऽप्राबन्धाया: । चरमऽअजाम् । अपेचिरन् ॥१८.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 11
विषय - वेदविद्या की रक्षा का उपदेश।
पदार्थ -
(हन्यमाना) नाश की जाती हुई (गौः) वाणी ने (एव) अवश्य (तान्) उन (वैतहव्यान्) देवताओं के अन्न खानेवालों को (अवातिरत्) उतार दिया है। (ये) जिन्होंने (केसरप्राबन्धायाः) आत्मा में चलनेवाली अबन्ध शक्ति [परमेश्वर] की (चरमाजाम्) व्यापक विद्या को (अपेचिरन्) पचाया है [नष्ट कर दिया है] ॥११॥
भावार्थ - जो दुष्ट मनुष्य सर्वव्यापिनी वेदवाणी को नाश करना चाहते हैं, पण्डितों द्वारा वे मूर्ख नष्ट हो जाते हैं ॥११॥
टिप्पणी -
११−(गौः) वाणी (एव) अवश्यम् (तान्) (हव्यमाना) हिंस्यमाना नाश्यमाना (वैतहव्यान्) म० १०। वीतहव्यान् खादितदेवयोग्यान्नान् (अवातिरत्) पराभवत् (ये) (केसरप्राबन्धायाः) के+सृ गतौ−अच्+प्र+अबन्धायाः। के आत्मनि सरणशीलायाः प्रकर्षेण अबन्धायाः मुक्तस्वभावायाः शक्तेः परमेश्वरस्य (चरमाजाम्) चरम+अजाम्। चरेश्च। उ० ५।६९। इति चर गतौ−अमच्+अज गतिक्षेपणयोः−पचाद्यच्, गतिर्ज्ञानम्, वीभावाभावः। अजा अजनाः−तिरु० ४।२५। चरमां व्यापिकाम् अजां विद्याम् (अपेचिरन्) पच पाके लङि छान्दसं रूपम्। अपचन्। पाकेन तापेन नाशितवन्तः ॥