अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 10
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
ये स॒हस्र॒मरा॑ज॒न्नास॑न्दशश॒ता उ॒त। ते ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा वै॑तह॒व्याः परा॑भवन् ॥
स्वर सहित पद पाठये । स॒हस्र॑म् । अरा॑जन् । आस॑न् । द॒श॒ऽश॒ता: । उ॒त । ते । ब्रा॒ह्म॒णस्य॑ । गाम् । ज॒ग्ध्वा । वै॒त॒ऽह॒व्या: । परा॑ । अ॒भ॒व॒न् ॥१८.१०॥
स्वर रहित मन्त्र
ये सहस्रमराजन्नासन्दशशता उत। ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥
स्वर रहित पद पाठये । सहस्रम् । अराजन् । आसन् । दशऽशता: । उत । ते । ब्राह्मणस्य । गाम् । जग्ध्वा । वैतऽहव्या: । परा । अभवन् ॥१८.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 10
विषय - वेदविद्या की रक्षा का उपदेश।
पदार्थ -
(ये) जो (सहस्रम्) बलवान् सेना दल पर (अराजन्) राज करते थे और (उत) आप भी (दशशताः) दस सौ (आसन्) थे। (ब्राह्मणस्य) ब्राह्मण की (गाम्) वाणी को (जग्ध्वा) नाश करके (ते) वे (वैतहव्याः) देवताओं के अन्न खानेवाले (पराभवन्) हार गये ॥१०॥
भावार्थ - जिन मनुष्यों के बहुत सी सेना और परिवार भी बड़ा होता है, वे पाखण्डी वेद आज्ञा पर न चल कर नष्ट हो जाते हैं ॥१०॥
टिप्पणी -
१०−(ये) पाखण्डिनः (सहस्रम्) सहस्वत्−निरु० ३।१०। सहो बलम्−निघ० २।१, रो मत्वर्थीयः। बलवत् सेनादलम् (अराजन्) अशासुः (आसन्) अभवन् (दशशताः) अर्शआद्यच्। दशशतयुक्ताः। बहुसंख्याकाः (उत) अपि (ते) (ब्राह्मणस्य) ब्रह्मवेत्तुः (गाम्) वाणीम् (जग्ध्वा) भक्षयित्वा नाशयित्वा (वैतहव्याः) वी खादने−क्त। वीतं खादितं हव्यं देवयोग्यान्नं यैस्ते वीतहव्याः। स्वार्थे अण् (पराभवन्) पराजयं प्राप्तवन्तः ॥