अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 3
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
त्वे क्रतु॒मपि॑ पृञ्चन्ति॒ भूरि॒ द्विर्यदे॒ते त्रिर्भ॑व॒न्त्यूमाः॑। स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ॥
स्वर सहित पद पाठत्वे इति॑ । क्रतु॑म् । अपि॑ । पृ॒ञ्च॒न्ति॒ । भूरि॑ । द्वि: । यत् । ए॒ते । त्रि: । भव॑न्ति । ऊमा॑: । स्वा॒दो: । स्वादी॑य: । स्वा॒दुना॑ । सृ॒ज॒ । सम् । अ॒द: । सु । मधु॑। मधु॑ना । अ॒भि । यो॒धी॒: ॥२.३॥
स्वर रहित मन्त्र
त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः। स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥
स्वर रहित पद पाठत्वे इति । क्रतुम् । अपि । पृञ्चन्ति । भूरि । द्वि: । यत् । एते । त्रि: । भवन्ति । ऊमा: । स्वादो: । स्वादीय: । स्वादुना । सृज । सम् । अद: । सु । मधु। मधुना । अभि । योधी: ॥२.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 3
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
[हे परमात्मन् !] (त्वे अपि) तुझ में ही (क्रतुम्) अपनी बुद्धि को (भूरि) बहुत प्रकार से [सब प्राणी] (पृञ्चन्ति) जोड़ते हैं। (एते) यह सब (ऊमाः) रक्षक प्राणी (द्विः) दो बार [स्त्री पुरुष रूप से] (त्रिः) तीन बार (स्थान, नाम और जन्म रूप से) (भवन्ति) रहते हैं। (यत्) क्योंकि (स्वादोः) स्वादु से (स्वादीयः) अधिक स्वादु मोक्षसुख को (स्वादुना) स्वादु [सांसारिक सुख] के साथ (सम् सृज) संयुक्त कर] (अदः) उस (मधु) मधुर मोक्षसुख को (मधुना) मधुर [सांसारिक ज्ञान के साथ (सु) भले प्रकार (अभि) सब ओर से (योधीः) तूने पहुँचाया है ॥३॥
भावार्थ - लिङ्गरहित आत्मा कभी स्त्री कभी पुरुष होकर अपने कर्मानुसार मनुष्य आदि शरीर, नाम और जाति भोगता है। सब प्राणी परमेश्वर की महिमा जानकर सांसारिक व्यवहार द्वारा मोक्ष सुख प्राप्त करें, जैसे कि पूर्वज ऋषियों ने वेद द्वारा प्राप्त किया है ॥३॥
टिप्पणी -
३−(त्वे) सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः शे आदेशः। त्वयि (क्रतुम्) प्रज्ञाम्−निघ० ३।९। (अपि) एव (पृञ्चन्ति) पृची सम्पर्के। संयोजयन्ति सर्वे प्राणिनः (भूरि) बहुप्रकारेण (द्विः) द्वित्रिचतुर्भ्यः सुच्। पा० ५।४।१८। इति सुच्। द्विवारं स्त्रीरूपेण पुंरूपेण च (यत्) यस्मात्। (एते) दृश्यमानाः (त्रिः) त्रि−सुच्। त्रिवारं स्थाननामजन्मरूपेण। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति−निरु० ९।२८। (भवन्ति) वर्तन्ते (ऊमाः) म० १। रक्षकाः (स्वादोः) स्वादुनः। प्रियात् (स्वादीयः) स्वादु−ईयसुन्। स्वादुतरम्। प्रियतरं मोक्षसुखम् (स्वादुना) प्रियेण सांसारिकसुखेन (सम् सृज) संयोजय (अदः) तत् (सु) सुष्ठु (मधु) मधुरं मोक्षसुखम् (मधुना) मधुरेण सांसारिकज्ञानेन (अभि) अभितः (योधीः) युध्यति गतिकर्मा−निघ० २।१४। छान्दसं लुङि रूपम्। अयोत्सीः। त्वं गमितवान् प्रापितवानसि ॥