अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 8
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
इ॒मा ब्रह्म॑ बृ॒हद्दि॑वः कृणव॒दिन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः। म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजा॒ तुर॑श्चि॒द्विश्व॑मर्णव॒त्तप॑स्वान् ॥
स्वर सहित पद पाठइ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑व: । कृ॒ण॒व॒त् । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒य: । स्व॒:ऽसा: । म॒ह: । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजा॑ । तुर॑: । चि॒त् । विश्व॑म् । अ॒र्ण॒व॒त् । तप॑स्वान् ॥२.८॥
स्वर रहित मन्त्र
इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः। महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥
स्वर रहित पद पाठइमा । ब्रह्म । बृहत्ऽदिव: । कृणवत् । इन्द्राय । शूषम् । अग्रिय: । स्व:ऽसा: । मह: । गोत्रस्य । क्षयति । स्वऽराजा । तुर: । चित् । विश्वम् । अर्णवत् । तपस्वान् ॥२.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 8
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
(बृहद्दिवः) बड़े व्यवहार वा गतिवाला, (अग्रियः) अगुआ और (स्वर्षाः) स्वर्ग का सेवन करनेवाला पुरुष (इन्द्राय) परमेश्वर के लिये (इमा) इन (ब्रह्म=ब्रह्माणि) बड़े स्तोत्रों को (शूषम्) अपना बल (कृणवत्) बनावे। (स्वराजा) वह स्वतन्त्र राजा परमेश्वर (महः) बड़े (गोत्रस्य) भूपति राजा का (क्षयति) राजा है, और वह (तुरः) शीघ्र स्वभाव, (तपस्वान्) सामर्थ्यवाला परमात्मा (चित्) ही (विश्वम्) सब जगत् में (अर्णवत्) व्यापता है ॥८॥
भावार्थ - मनुष्य जगदीश्वर परम पिता के गुण जान कर अपना बल बढ़ावें ॥८॥
टिप्पणी -
८−(इमा) इमानि (ब्रह्म) ब्रह्माणि बृहन्ति स्तोत्राणि (बृहद्दिवः) इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति बृहत्+दिवु क्रीडाविजिगीषाव्यवहारस्तुतिगत्यादिषु−क। बृहद्व्यवहारवान्। महागतिमान् पुरुषः (कृणवत्) कृवि हिंसाकरणयोः−लेट्। कुर्यात् (इन्द्राय) परमेश्वराय (शूषम्) बलनाम−निघ० २।९। स्वबलम् (अग्रियः) घच्छौ च। पा० ४।४।११७। इति अग्र−घ। अग्रे भवः। श्रेष्ठः (स्वर्षाः) जनसनखनक्रम०। पा० ३।२।६७। इति षण सम्भक्तौ दाने च−विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इत्यात्वम्। सनोतेरनः। पा० ८।३।१०८। इति षत्वम्। स्वर्गस्य सम्भक्ता सेवनकर्ता (महः) महतः (गोत्रस्य) गो+त्रैङ् रक्षणे−क। गोः पृथिव्या रक्षकस्य पुरुषस्य (क्षयति) क्षि ऐश्ये। ईष्टे (स्वराजा) स्वतन्त्रः स्वामी (तुरः) शीघ्रस्वभावः (चित्) एव (विश्वम्) सर्वं जगत् (अर्णवत्) ऋण गतौ−लडर्थे लेट्। अर्णोति। व्याप्नोति (तपस्वान्) ऐश्वर्यवान् ॥