अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 13
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्। त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ॥
स्वर सहित पद पाठतृती॑यकम् । वि॒ऽतृ॒ती॒यम् । स॒द॒म्ऽदिम् । उ॒त । शा॒र॒दम् । त॒क्मान॑म् । शी॒तम् । रू॒रम् । ग्रैष्म॑म् । ना॒श॒य॒ । वार्षि॑कम् ॥२२.१३॥
स्वर रहित मन्त्र
तृतीयकं वितृतीयं सदन्दिमुत शारदम्। तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥
स्वर रहित पद पाठतृतीयकम् । विऽतृतीयम् । सदम्ऽदिम् । उत । शारदम् । तक्मानम् । शीतम् । रूरम् । ग्रैष्मम् । नाशय । वार्षिकम् ॥२२.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 13
विषय - रोग नाश करने का उपदेश।
पदार्थ -
[हे वैद्य !] (तृतीयकम्) तिजारी, (वितृतीयम्) चौथिया आदि अन्तरिया, (सदन्दिम्) सदा फूटन करनेवाले, निरन्तरा (उत्) और (शारदम्) शरद ऋतु में आनेवाले, (शीतम्) शीत, (रूरम्) क्रूर, (ग्रैष्मम्) ग्रीष्म में आनेवाले, (वार्षिकम्) वर्षा में होनेवाले (तक्मानम्) दुःखित जीवन करनेवाले ज्वर को (नाशय) मिटा दे ॥१३॥
भावार्थ - सद्वैद्य देश, काल, स्वभाव आदि का विचार करके मनुष्यों को स्वस्थ रक्खे ॥१३॥
टिप्पणी -
१३−(तृतीयकम्) अ० १।२५।४। तृतीयदिने आगच्छन्तम् (वितृतीयम्) तृतीयदिनाद् भिन्नम् (सदन्दिम्) सदम् इत्यव्ययं सदेत्यर्थे। उपसर्गे घोः किः। पा० ३।३।९२। इति सदम्+दो अवखण्डने−कि। सदा खण्डकं पीडकम्। निरन्तरम् (उत) अपि (शारदम्) शरद्−अण्। शरदि भवम् (तक्मानम्) दुःखकरं ज्वरम् (शीतम्) अ० १।२५।४। शीतस्पर्शम् (रूरम्) म० १०। क्रूरम् (ग्रैष्मम्) घर्मग्रीष्मौ। उ० १।१४९। इति ग्रसु अदने−मक्, ग्री भावः, षुक् च। ग्रीष्म−अण्। ग्रीष्मे भवम् (नाशय) नष्टं कुरु (वार्षिकम्) अ० ४।१९।१। वर्षासु भवम् ॥