अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 10
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - अतिशक्वरी
सूक्तम् - ब्रह्मकर्म सूक्त
च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
स्वर सहित पद पाठच॒न्द्रमा॑: । नक्ष॑त्राणाम् । अधि॑ऽपति: । स: । मा॒ । अ॒व॒तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.१०॥
स्वर रहित मन्त्र
चन्द्रमा नक्षत्राणामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥
स्वर रहित पद पाठचन्द्रमा: । नक्षत्राणाम् । अधिऽपति: । स: । मा । अवतु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 10
विषय - रक्षा के लिये प्रयत्न का उपदेश।
पदार्थ -
(चन्द्रमाः) आनन्द देनेवाला चन्द्र (नक्षत्राणाम्) चलनेवाले अश्विनी आदि नक्षत्रों का (अधिपतिः) अधिष्ठाता है (सः)... वह म० १ ॥१०॥
भावार्थ - चन्द्रमा अश्विनी आदि नक्षत्रों का स्वामी होकर शुक्लपक्ष कृष्णपक्ष आदि काल बनाता है और अन्न आदि ओषधियों को पुष्ट करता है, उस चन्द्रमा के गुण जानकर मनुष्य सदा आनन्द भोगें ॥१०॥
टिप्पणी -
१०−(चन्द्रमाः) चन्द्रमानन्दं मिमीते। चन्द्रे मो डित्। उ० ४।२२८। इति चन्द्र+माङ् माने−असि, स च डित्। चन्द्रमाश्चायन् द्रमति चन्द्रो माता चान्द्रं मानमस्येति वा। चन्द्रश्चन्दतेः कान्तिकर्मणः−निरु० ११।५। चन्द्रलोकः (नक्षत्राणाम्) अ० ३।७।७। गतिशीलानां खगोलस्थानामश्विन्यादिसप्तविंशति-तारकाणाम् ॥