अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 16
सूक्त - अथर्वा
देवता - तताः पितरगणः
छन्दः - त्रिपदा भुरिग्जगती
सूक्तम् - ब्रह्मकर्म सूक्त
त॒ता अव॑रे ते मावन्तु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
स्वर सहित पद पाठत॒ता: । अव॑रे । ते । मा॒ । अ॒व॒न्तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.१६॥
स्वर रहित मन्त्र
तता अवरे ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥
स्वर रहित पद पाठतता: । अवरे । ते । मा । अवन्तु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.१६॥
अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 16
विषय - रक्षा के लिये प्रयत्न का उपदेश।
पदार्थ -
(अवरे) पिछले काल में वर्तमान (ते) वे (तताः=ताताः) विस्तार करनेवाले पूज्य पुरुष (मा) मुझे (अवन्तु) बचावें... म० १ ॥१६॥
भावार्थ - मनुष्य वर्तमान काल के महापुरुषों के समान कार्य सिद्ध करके सदा उन्नति करें ॥१६॥
टिप्पणी -
१६−(तताः) तनोति विस्तारयतीति तातः। दुतनिभ्यां दीर्घश्च। उ० ३।९०। इति तनु विस्तारे−क्त। छान्दसो ह्रस्वः। ताताः। विस्तारशीलाः पूज्याः (अवरे) पश्चात् काले वर्तमानाः। इदानीन्तनाः। अन्यद् गतम् ॥