अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - निविदः
छन्दः - द्विपदा प्राजापत्या बृहती
सूक्तम् - नवशाला सूक्त
प्रै॒षा य॒ज्ञे नि॒विदः॒ स्वाहा॑ शि॒ष्टाः पत्नी॑भिर्वहते॒ह यु॒क्ताः ॥
स्वर सहित पद पाठप्र॒ऽए॒षा: । य॒ज्ञे । नि॒ऽविद॑: । स्वाहा॑ । शि॒ष्टा: । पत्नी॑भि: । व॒ह॒त॒ । इ॒ह । यु॒क्ता: ॥२६.४॥
स्वर रहित मन्त्र
प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥
स्वर रहित पद पाठप्रऽएषा: । यज्ञे । निऽविद: । स्वाहा । शिष्टा: । पत्नीभि: । वहत । इह । युक्ता: ॥२६.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 4
विषय - समाज की वृद्धि करने का उपदेश।
पदार्थ -
(पत्नीभिः) पालनशील शक्तियों से (युक्ताः) युक्त (शिष्टाः) हे शिष्ट पुरुषो ! (प्रैषाः) भेजने योग्य (निविदः) निश्चित विद्याओं को (इह) यहाँ (यज्ञे) संगति में (स्वाहा) सुन्दर वाणी से (वहत) लाओ ॥४॥
भावार्थ - धीर सुशिक्षित पुरुष अन्न आदि दान करके वेद आदि सत्य विद्याओं का प्रचार करें ॥४॥
टिप्पणी -
४−(प्रैषाः) प्र+इष गतौ−घञ्, टाप्। प्रादूहोढोढ्येषैष्येषु। वा० पा० ६।१।८९। इति वृद्धिः। प्रेषणीयाः (निविदः) सत्सूद्विषद्रुहदुह०। पा० ३।२।६१। इति नि+विद ज्ञाने−क्विप्। निवित्, वाङ्नाम−निघ० १।११। निश्चितविद्याः (शिष्टाः) शासु अनुशिष्टौ−क्त। हे सुबोधाः पुरुषाः (पत्नीभिः) पालनशक्तिभिः (वहत) नयत (युक्ताः) उपेताः सन्तः ॥