अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 10
सूक्त - बृहद्दिवोऽथर्वा
देवता - धाता, विधाता, सविता, आदित्यगणः, रुद्रगणः, अश्विनीकुमारः
छन्दः - विराड्जगती
सूक्तम् - विजयप्रार्थना सूक्त
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामह एनान्। आ॑दि॒त्या रु॒द्रा उ॑परि॒स्पृशो॑ नो उ॒ग्रं चे॒त्तार॑मधिरा॒जम॑क्रत ॥
स्वर सहित पद पाठये । न॒: । स॒ऽपत्ना॑: । अप॑। ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । ए॒ना॒न् । आ॒दि॒त्या: । रु॒द्रा: । उ॒प॒रि॒ऽस्पृश॑: । न॒: । उ॒ग्रम् । चे॒त्तार॑म् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒त॒ ॥३.१०॥
स्वर रहित मन्त्र
ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान्। आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत ॥
स्वर रहित पद पाठये । न: । सऽपत्ना: । अप। ते । भवन्तु । इन्द्राग्निऽभ्याम् । अव । बाधामहे । एनान् । आदित्या: । रुद्रा: । उपरिऽस्पृश: । न: । उग्रम् । चेत्तारम् । अधिऽराजम् । अक्रत ॥३.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 10
विषय - रक्षा के उपाय का उपदेश।
पदार्थ -
(ये) जो (नः) हमारे (सपत्नाः) शत्रु हैं (ते) वे (अपभवन्तु) दूर हो जावें, (इन्द्राग्निभ्याम्) वायु और अग्नि [प्राण और पराक्रम] द्वारा (एनान्) इनको (अव बाधामहे) हम हटाते हैं (आदित्याः) प्रकाशमान, (रुद्राः) दुःखनाशक, (उपरिस्पृशः) उच्च पद धारण करनेवाले पुरुषों ने (चेत्तारम्) सर्वज्ञ, (उग्रम्) तेजस्वी परमात्मा को (नः) हमारा [अधिराजम्] राजाधिराज (अक्रत) बनाया है ॥१०॥
भावार्थ - जिस परमात्मा को ऋषि मुनि महात्माओं ने सब संसार का स्वामी साक्षात् किया है, उसी परमात्मा के आश्रय से हम अपने शत्रुओं को जीतें ॥१०॥
टिप्पणी -
१०−(ये) (नः) अस्माकम् (सपत्नाः) अ० १।९।२। सहपतनशीलाः। शत्रवः (ते) शत्रवः (अप भवन्तु) अपगताः प्रच्युताः सन्तु (इन्द्राग्नीभ्याम्) वाय्वग्निभ्यां प्राणपराक्रमाभ्यां सह (अवबाधामहे) अव रुन्ध्मः (एनान्) शत्रून् (आदित्याः) म० ९। प्रकाशमानाः (रुद्राः) म० ९। दुःखनाशकाः पुरुषाः (उपरिस्पृशः) उन्नतपदस्य स्प्रष्टारो धर्तारः (नः) अस्माकम् (उग्रम्) तेजस्विनं परमेश्वरम् (चेत्तारम्) इडभावः। चेतितारं सर्वस्य ज्ञातारम् (अधिराजम्) अधीश्वरम् (अक्रत) लुङि छान्दसं रूपम्। अकुर्वत। कृतवन्तः ॥