अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 8
सूक्त - अथर्वा
देवता - अरातिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - अरातिनाशन सूक्त
उ॒त न॒ग्ना बोभु॑वती स्वप्न॒या स॑चसे॒ जन॑म्। अरा॑ते चि॒त्तं वीर्त्स॒न्त्याकू॑तिं॒ पुरु॑षस्य च ॥
स्वर सहित पद पाठउ॒त । न॒ग्ना । बोभु॑वती । स्व॒प्न॒ऽया । स॒च॒से॒ । जन॑म् । अरा॑ते । चि॒त्तम् । वि॒ऽईर्त्स॑न्ती । आऽकू॑तिम् । पुरु॑षस्य । च॒ ॥७.८॥
स्वर रहित मन्त्र
उत नग्ना बोभुवती स्वप्नया सचसे जनम्। अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च ॥
स्वर रहित पद पाठउत । नग्ना । बोभुवती । स्वप्नऽया । सचसे । जनम् । अराते । चित्तम् । विऽईर्त्सन्ती । आऽकूतिम् । पुरुषस्य । च ॥७.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 8
विषय - पुरुषार्थ करने के लिये उपदेश।
पदार्थ -
(उत) और (अराते) हे अदान शक्ति [निर्धनता] (पुरुषस्य) मनुष्य के (चितम्) चित्त (च) और (आकूतिम्) संकल्प (वीर्त्सन्ती) असिद्ध करती हुई (नग्ना) लज्जित (बोभुवती) बार-बार होती हुई तू (स्वप्नया) नींद [आलस्य] के साथ (जनम्) जनसमूह को (सचसे) प्राप्त होती है ॥८॥
भावार्थ - मनुष्य निर्धनता के कारण अपने चित्त और संकल्प को नष्ट करते, लज्जित और आलसी होते हैं ॥८॥
टिप्पणी -
८−(उत) अपि च (नग्ना) ओनज व्रीडायाम्−क्त ओदितश्च। पा० ८।२।४५। इति तस्य न। लज्जिता (बोभुवती) भू सत्तायां यङ्लुगन्तात्−शतृ। पुनः पुनर्भवन्ती (स्वप्नया) सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्याच्। स्वप्नेन। आलस्येन (सचसे) समवैषि (जनम्) मनुष्यसमूहम् (अराते) हे अदानशक्ते (चित्तम्) अन्तःकरणम् (वीर्त्सन्ती) म० १। वि+ऋधु−सन्, शतृ, ङीप्। असाधयन्ती नाशयन्ती (आकूतिम्) संकल्पम् (पुरुषस्य) मनुष्यस्य (च) ॥