Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 1
सूक्त - जमदग्नि
देवता - अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - अभिसांमनस्य सूक्त
यथा॒यं वा॒हो अ॑श्विना स॒मैति॒ सं च॒ वर्त॑ते। ए॒वा माम॒भि ते॒ मनः॑ स॒मैतु॒ सं च॑ वर्तताम् ॥
स्वर सहित पद पाठयथा॑ । अ॒यम् । वा॒ह: । अ॒श्वि॒ना॒ । स॒म्ऽऐति॑ । सम् । च॒ । वर्त॑ते । ए॒व । माम् । अ॒भि । ते॒ । मन॑: । स॒म्ऽऐतु॑ । सम् । च॒ । व॒र्त॒ता॒म् ॥१०२.१॥
स्वर रहित मन्त्र
यथायं वाहो अश्विना समैति सं च वर्तते। एवा मामभि ते मनः समैतु सं च वर्तताम् ॥
स्वर रहित पद पाठयथा । अयम् । वाह: । अश्विना । सम्ऽऐति । सम् । च । वर्तते । एव । माम् । अभि । ते । मन: । सम्ऽऐतु । सम् । च । वर्तताम् ॥१०२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 1
विषय - जितेन्द्रिय होने का उपदेश।
पदार्थ -
(अश्विना) हे सूर्य और चन्द्रमा [के समान नियमवाले पुरुष !] (यथा) जैसे (अयम्) यह (वाहः) लट्टू पशु [घोड़ा बैल आदि] (समैति) मिलकर आता है (च) और (सम्) ठीक-ठीक (वर्तते) वर्तता है। (एव) वैसे ही [हे जीव !] (माम् अभि) मेरी ओर (ते मनः) तेरा मन (समैतु) मिल कर आवे (च) और (सम् वर्तताम्) ठीक-ठीक वर्ताव करे ॥१॥
भावार्थ - जैसे मनुष्य पशु आदि को शिक्षा देकर सुमार्ग पर चलाता है, वैसे ही जितेन्द्रिय पुरुष मन को वश में करके शुभ मार्ग में अपने को चलावे ॥१॥
टिप्पणी -
१−(यथा) येन प्रकारेण (अयम्) पुरोवर्तमानः (वाहः) भारवाहकः पशुः (अश्विना) अ० २।२९।६। अश्विनौ सूर्य्याचन्द्रमसावित्येके−निरु० १२।१। हे सूर्यचन्द्रतुल्यनियमवन् पुरुष (समैति) संगत्यागच्छति (सम्) सम्यक् (च) (वर्तते) भवति (एव) एवम् (माम्) जितेन्द्रिय (अभि) प्रति (ते) तव (मनः) मननसाधनं चित्तम् (समैतु) संगत्यागच्छतु (सम् च वर्तताम्) ॥