Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 2
सूक्त - जमदग्नि
देवता - अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - अभिसांमनस्य सूक्त
आहं खि॑दामि ते॒ मनो॑ राजा॒श्वः पृ॒ष्ट्यामि॑व। रे॒ष्मच्छि॑न्नं॒ यथा॒ तृणं॒ मयि॑ ते वेष्टतां॒ मनः॑ ॥
स्वर सहित पद पाठआ । अ॒हम् । खि॒दा॒मि॒ । ते॒ । मन॑: । रा॒ज॒ऽअ॒श्व: । पृ॒ष्ट्याम्ऽइ॑व। रे॒ष्मऽछि॑न्नम् । यथा॑ । तृण॑म् । मयि॑ । ते॒ । वे॒ष्ट॒ता॒म् । मन॑: ॥१०२.२॥
स्वर रहित मन्त्र
आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव। रेष्मच्छिन्नं यथा तृणं मयि ते वेष्टतां मनः ॥
स्वर रहित पद पाठआ । अहम् । खिदामि । ते । मन: । राजऽअश्व: । पृष्ट्याम्ऽइव। रेष्मऽछिन्नम् । यथा । तृणम् । मयि । ते । वेष्टताम् । मन: ॥१०२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 2
विषय - जितेन्द्रिय होने का उपदेश।
पदार्थ -
[हे प्राणी !] (अहम्) मैं (ते मनः) तेरे मन को (आखिदामि) ऐसे खीचता हूँ (इव) जैसे (राजाश्वः) बड़ा अश्ववार (पृष्ट्याम्) बागडोर को। (मयि) मुझ में (ते मनः) तेरा मन (वेष्टताम्) लिपटा रहे (यथा) जैसे (रेष्मच्छिन्नम्) व्याकुल करनेवाली आँधी से तोड़ा गया (तृणम्) घास ॥२॥
भावार्थ - मनुष्य अपने मन को कुविषयों से खींच कर तत्त्व विचार में ऐसा लगावे, जैसा सुसारथी चञ्चल घोड़े को बागडोरी से वश में करता है, अथवा जैसे घास आँधी से टूट कर आँधी के वश में हो जाती है ॥२॥
टिप्पणी -
२−(अहम्) जितेन्द्रियः (आखिदामि) आकर्षामि (ते) तव (मनः) अन्तःकरणम् (राजाश्वः) अश्वमारोहतीति अश्वारूढः, स एव अश्वः। विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्यः। वा० पा० ५।३।८३। इत्यारूढपदलोपः राजाश्वारूढः=राजाश्वः, कुशलोऽश्वारूढः (पृष्ट्याम्) पृषु सेचनहिंसासंक्लेशनेषु−क्तिन्, ततो यत्। पृष्टौ क्लेशसाधनाया रज्ज्वां भवरश्मिप्रग्रहम् (इव) यथा (रेष्मच्छिन्नम्) रिष हिंसायाम्−मनिन्। रेषकेण तीव्रवायुना भग्नम् (यथा) येन प्रकारेण (मयि) मम वशे (ते) तव (वेष्टताम्) आच्छाद्यताम् (मनः) ॥