Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 11/ मन्त्र 2
पुं॒सि वै रेतो॑ भवति॒ तत्स्त्रि॒यामनु॑ षिच्यते। तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्प्र॒जाप॑तिरब्रवीत् ॥
स्वर सहित पद पाठपुं॒सि । वै। रेत॑: । भ॒व॒ति॒ । तत् । स्त्रि॒याम् । अनु॑ । सि॒च्य॒ते॒ । तत्। वै । पु॒त्रस्य॑ । वेद॑नम्। तत् । प्र॒जाऽप॑ति: । अ॒ब्र॒वी॒त् ॥११.२॥
स्वर रहित मन्त्र
पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते। तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत् ॥
स्वर रहित पद पाठपुंसि । वै। रेत: । भवति । तत् । स्त्रियाम् । अनु । सिच्यते । तत्। वै । पुत्रस्य । वेदनम्। तत् । प्रजाऽपति: । अब्रवीत् ॥११.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 11; मन्त्र » 2
विषय - गर्भाधान का उपदेश।
पदार्थ -
(पुंसि) रक्षा स्वभाव पुरुष में (वै) ही (रेतः) वीर्य (भवति) होता है, (तत्) वह वीर्य (स्त्रियाम्) स्त्री में (अनु) अनुकूल विधि से (सिच्यते) सींचा जाता है। (तत्) वह कर्म (वै) ही (पुत्रस्य) कुलशोधक संतान की (वेदनम्) प्राप्ति का कारण है, (तत्) वही (प्रजापतिः) प्रजाओं के रक्षक ईश्वर ने (अब्रवीत्) बताया है ॥२॥
भावार्थ - युवा अवस्था में ही मनुष्य पूर्ण बलवान् और वीर्यवान् होकर उत्तम बलवान् संतान उत्पन्न करे, यह ईश्वरनियम है ॥२॥
टिप्पणी -
२−(पुंसि) अ० ३।६।१। रक्षणस्वभावे बलवति पुरुषे (वै) एव (रेतः) अ० २।२८।५। वीर्यम् (भवति) (तत्) रेतः (स्त्रियाम्) पत्न्याम् (अनु) आनुकूल्येन। यथाविधि (सिच्यते) सेचनं क्रियते (तत्) रेतःसेचनम् (वै) (पुत्रस्य) (वेदनम्) प्राप्तिकारणम् (प्रजापतिः) प्रजानां पालकः परमेश्वरः (अब्रवीत्) अकथयत् ॥