Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 128/ मन्त्र 3
सूक्त - अथर्वाङ्गिरा
देवता - सोमः, शकधूमः
छन्दः - अनुष्टुप्
सूक्तम् - राजा सूक्त
अ॑होरा॒त्राभ्यां॒ नक्ष॑त्रेभ्यः सूर्याचन्द्र॒मसा॑भ्याम्। भ॑द्रा॒हम॒स्मभ्यं॑ राज॒ञ्छक॑धूम॒ त्वं कृ॑धि ॥
स्वर सहित पद पाठअ॒हो॒रा॒त्राभ्या॑म् । नक्ष॑त्रेभ्य: । सू॒र्या॒च॒न्द्र॒मसा॑भ्याम् । भ॒द्र॒ऽअ॒हम् । अ॒स्मभ्य॑म् । रा॒ज॒न् । शक॑ऽधूम । त्वम् । कृ॒धि॒ ॥१२८.३॥
स्वर रहित मन्त्र
अहोरात्राभ्यां नक्षत्रेभ्यः सूर्याचन्द्रमसाभ्याम्। भद्राहमस्मभ्यं राजञ्छकधूम त्वं कृधि ॥
स्वर रहित पद पाठअहोरात्राभ्याम् । नक्षत्रेभ्य: । सूर्याचन्द्रमसाभ्याम् । भद्रऽअहम् । अस्मभ्यम् । राजन् । शकऽधूम । त्वम् । कृधि ॥१२८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 128; मन्त्र » 3
विषय - आनन्द पाने का उपदेश।
पदार्थ -
(शकधूम) हे समर्थ सूर्य आदि लोकों के कँपानेवाले (राजन्) परमेश्वर ! (त्वम्) तू (अस्मभ्यम्) हमारे लिये (अहोरात्राभ्याम्) दिन और रात्रि से, (नक्षत्रेभ्यः) नक्षत्रों से और (सूर्याचन्द्रमसाभ्याम्) सूर्य और चन्द्रमा से (भद्राहम्) शुभ दिन (कृधि) कर ॥३॥
भावार्थ - मनुष्य सब काल में, सब स्थान में, सब पदार्थों से उपकार लेकर परमेश्वर की महिमा विचारते हुए सदा सुखी रहें ॥३॥
टिप्पणी -
३−(अहोरात्राभ्याम्) अहःसर्वैकदेश०। पा० ५।४।८७। इत्यकारः समासान्तः। अहश्च रात्रिश्च ताभ्यां सकाशात् (नक्षत्रेभ्यः) अश्विन्यादिभ्यः (सूर्याचन्द्रमसाभ्याम्) अकारश्छान्दसः समासान्तः। सूर्यचन्द्राभ्याम् (भद्राहम्) शुभदिनम् (अस्मभ्यम्) अस्मदर्थम् (राजन्) शासितः (शकधूम) म० १। समर्थानां सूर्यादिलोकानां कम्पक (त्वम्) (कृधि) कुरु ॥