अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 2
सूक्त - अथर्वा
देवता - नितत्नीवनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - क्लीबत्व सूक्त
क्ली॒बं कृ॑ध्योप॒शिन॒मथो॑ कुरी॒रिणं॑ कृधि। अथा॒स्येन्द्रो॒ ग्राव॑भ्यामु॒भे भि॑नत्त्वा॒ण्ड्यौ ॥
स्वर सहित पद पाठक्ली॒बम् । कृ॒धि॒ । ओ॒प॒शिन॑म् । अथो॒ इति॑ । कु॒री॒रिण॑म् । कृ॒धि॒ । अथ॑ । अ॒स्य॒ । इन्द्र॑: । ग्राव॑ऽभ्याम् । उ॒भे इति॑ । भि॒न॒त्तु॒ । आ॒ण्ड्यौ᳡ ॥१३८.२॥
स्वर रहित मन्त्र
क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि। अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥
स्वर रहित पद पाठक्लीबम् । कृधि । ओपशिनम् । अथो इति । कुरीरिणम् । कृधि । अथ । अस्य । इन्द्र: । ग्रावऽभ्याम् । उभे इति । भिनत्तु । आण्ड्यौ ॥१३८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 2
विषय - निर्बलता हटाने का उपदेश।
पदार्थ -
(क्लीबम्) बलहीन पुरुष को (ओपशिनम्) उपयोगी (कृधि) बना, (अथो) और भी (कुरीरिणम्) कर्मकारी (कृधि) बना। (अथ) और (इन्द्रः) बड़े ऐश्वर्यवाले वैद्य आप (ग्रावभ्याम्) पत्थर समान दो दृढ शस्त्रों से (अस्य) इस [रोगी] के (उभे) दोनों (आण्ड्यौ) आण्डी [वा अण्डिनी, दोनों अण्डकोश के रोग] को (भिनत्तु) छेदे ॥२॥
भावार्थ - वैद्य अण्डकोष के आण्डी, अण्डिनी, पथरी आदि रोगों को दृढ़ शस्त्रों से तोड़ कर ओषधि करें ॥२॥
टिप्पणी -
२−(क्लीबम्) म० १। निर्बलम् (कृधि) कुरु (ओपशिनम्) म० १। समन्तादुपयोगिनम् (अथो) अपि च (कुरीरिणम्) अ० ५।३१।२। कृञ उच्च। उ० ४।३३। डुकृञ् करणे−ईरन्, तत इनि। कर्मवन्तम् (अथ) पुनः (अस्य) रोगिणः (इन्द्रः) परमैश्वर्यवान् वैद्यः (ग्रावभ्याम्) अ० ३।१०।५। पाषाणवद् दृढाभ्यां शस्त्राभ्याम् (उभे) द्वे (भिनत्तु) छिनत्तु (आण्ड्यौ) अण्ड−अण्, ङीप्। अण्डकोशभवौ। आण्डीरोगौ ॥