अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 3
सूक्त - अथर्वा
देवता - नितत्नीवनस्पतिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - क्लीबत्व सूक्त
क्लीब॑ क्ली॒बं त्वा॑करं॒ वध्रे॒ वध्रिं॑ त्वाकर॒मर॑सार॒सं त्वा॑करम्। कु॒रीर॑मस्य शी॒र्षणि॒ कुम्बं॑ चाधि॒निद॑ध्मसि ॥
स्वर सहित पद पाठक्लीब॑ । क्ली॒बम् । त्वा॒ । अ॒क॒र॒म् । वध्रे॑ । वध्रि॑म् । त्वा॒ । अ॒क॒र॒म् । अर॑स । अ॒र॒सम् । त्वा॒ । अ॒क॒र॒म् । कु॒रीर॑म् । अ॒स्य॒। शी॒र्षाणि॑ । कुम्ब॑म् । च॒ । अ॒धि॒ऽनिद॑ध्मसि ॥१३८.३॥
स्वर रहित मन्त्र
क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम्। कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥
स्वर रहित पद पाठक्लीब । क्लीबम् । त्वा । अकरम् । वध्रे । वध्रिम् । त्वा । अकरम् । अरस । अरसम् । त्वा । अकरम् । कुरीरम् । अस्य। शीर्षाणि । कुम्बम् । च । अधिऽनिदध्मसि ॥१३८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 3
विषय - निर्बलता हटाने का उपदेश।
पदार्थ -
(क्लीब) हे निर्बल करनेवाले रोग ! (त्वा) तुझको मैंने (क्लीबम्) निर्बल (अकरम्) कर दिया है, (वध्रे) हे बल को बाँधनेवाले रोग ! (त्वा) तुझको (वध्रिम्) शक्तिहीन (अकरम्) मैंने कर दिया है, (अरस) हे नीरस करनेवाले रोग ! (त्वा) तुझे (अरसम्) नीरस (अकरम्) मैंने कर दिया है। (अस्य) इस [स्वस्थ] पुरुष के (शीर्षणि) शिर पर (कुरीरम्) कर्म सामर्थ्य (च) और (कुम्बम्) विस्तृत आभूषण (अधिनिदध्मसि) हम अधिकारपूर्वक रखते हैं ॥३॥
भावार्थ - मनुष्य बलहीन क्रियाहीन रोगियों को स्वस्थ और उत्साही बनावें ॥३॥
टिप्पणी -
३−(क्लीब) हे निर्बलकर रोग (क्लीबम्) निर्बलम् (त्वा) (अकरम्) अकार्षम् (वध्रे) अ० ३।९।२। हे शक्तिबन्धक रोग (वध्रिम्) शक्तिहीनम् (अरस) हे नीरसकर (अरसम्) रसहीनम्। निर्वीर्यम् (कुरीरम्)−म० २। कर्मसामर्थ्यम् (अस्य) स्वस्थस्य (शीर्षणि) शिरसि (कुम्बम्) कुबि आच्छादने−अच्। विस्तृतं भूषणं (च) (अधिनिदध्मसि) अधिकृत्य स्थापयामः ॥