Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 15/ मन्त्र 1
सूक्त - उद्दालक
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उ॑त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑। उ॑प॒स्तिर॑स्तु॒ सो॒स्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
स्वर सहित पद पाठउ॒त्ऽत॒म: । अ॒सि॒ । ओष॑धीनाम् । तव॑ । वृ॒क्षा: । उ॒प॒ऽस्तय॑: । उ॒प॒ऽस्ति: । अ॒स्तु॒ । स: । अ॒स्माक॑म् । य: । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥१५.१॥
स्वर रहित मन्त्र
उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः। उपस्तिरस्तु सोस्माकं यो अस्माँ अभिदासति ॥
स्वर रहित पद पाठउत्ऽतम: । असि । ओषधीनाम् । तव । वृक्षा: । उपऽस्तय: । उपऽस्ति: । अस्तु । स: । अस्माकम् । य: । अस्मान् । अभिऽदासति ॥१५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 15; मन्त्र » 1
विषय - उत्तम गुणों की प्राप्ति का उपदेश।
पदार्थ -
[हे परमेश्वर !] (ओषधीनाम्) सब तापनाशक ओषधियों में तू (उत्तमः) उत्तम (असि) है, (वृक्षाः) सब स्वीकार करने योग्य गुण (तव) तेरे (उपस्तयः) उपासक [अधीन] हैं। (सः) वह पुरुष (अस्माकम्) हमारे (उपस्तिः) अधीन (अस्तु) होवे, (यः) जो (अस्मान्) हमें (अभिदासति) सतावे ॥१॥
भावार्थ - सर्वशक्तिमान् परमेश्वर की भक्तिपूर्वक मनुष्य पुरुषार्थ करके अपने विघ्नों को मिटावे ॥१॥
टिप्पणी -
१−(उत्तमः) सर्वोत्कृष्टः (असि) (ओषधीनाम्) अ० १।३०।३। तापनाशकानां पदार्थानाम् (तव) (वृक्षाः) वृक्ष वरणे−क। वरणीयाः श्रेष्ठाः गुणाः (उपस्तयः) अ० ३।५।६। उपासकाः। वशीभूताः (उपस्तिः) उपासकः (अस्तु) (सः) शत्रुः (अस्माकम्) (यः) (अस्मान्) धार्मिकान् (अभिदासति) अ० ४।१९।५। अभितो हिनस्ति ॥