Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 23/ मन्त्र 1
स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑। वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ॥
स्वर सहित पद पाठस॒स्रुषी॑: । तत् । अ॒पस॑: । दिवा॑ । नक्त॑म्। च॒ । स॒स्रुषी॑: । वरे॑ण्यऽक्रतु । अ॒हम् । अ॒प: । दे॒वी: । उप॑ । ह्व॒ये॒ ॥२३.१॥
स्वर रहित मन्त्र
सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः। वरेण्यक्रतुरहमपो देवीरुप ह्वये ॥
स्वर रहित पद पाठसस्रुषी: । तत् । अपस: । दिवा । नक्तम्। च । सस्रुषी: । वरेण्यऽक्रतु । अहम् । अप: । देवी: । उप । ह्वये ॥२३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 23; मन्त्र » 1
विषय - कर्म करने के लिये उपदेश।
पदार्थ -
(वरेण्यक्रतुः) उत्तम कर्म वा बुद्धिवाला (अहम्) मैं (अपसः) व्यापक (तत्=तस्य) विस्तृत ब्रह्म की (दिवा) दिन (च) और (नक्तम्) राति (सस्रुषीः सस्रुषीः) अत्यन्त उद्योगशील, (देवीः) प्रकाशमय (अपः) व्यापक शक्तियों को (उप) आदर से (ह्वये) बुलाता हूँ ॥१॥
भावार्थ - मनुष्य परमेश्वर की शक्तियों का विचार करते हुए सदा पुरुषार्थ करें ॥१॥
टिप्पणी -
१−(सस्रुषीः सस्रुषीः) सृ गतौ, लिटः क्वसु। उगितश्च। पा० ४।१।६। इति ङीप्। वसोः सम्प्रसारणे यण्। नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। अतिशयेनोद्योगशीलाः (तत्) त्यजितनियजिभ्यो डित्। उ० १।१३२। इति तनु विस्तारे−अदि, स च डित्। विस्तृतस्य ब्रह्मणः (अपसः) आपः कर्माख्यायां०। उ० ४।२०८। इति आप्लृ व्याप्तौ−असुन्, ह्रस्वश्च। व्यापकस्य (दिवा) दिने (नक्तम्) रात्रौ (च) (वरेण्यक्रतुः) वृञ एण्यः। उ० ३।९८। इति वृञ् वरणे−एण्य। क्रतुः कर्मनाम−निघ० २।१। प्रज्ञानाम−निघ० ३।९। प्रशस्तकर्मा। उत्तमबुद्धिः (अहम्) पुरुषार्थी (अपः) व्यापिकाः शक्तीः (देवीः) प्रकाशमानाः (उप) आदरे (ह्वये) आह्वयामि ॥