Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 38/ मन्त्र 4
सूक्त - अथर्वा
देवता - बृहस्पतिः, त्विषिः
छन्दः - त्रिष्टुप्
सूक्तम् - वर्चस्य सूक्त
रा॑ज॒न्ये दुन्दु॒भावाय॑ताया॒मश्व॑स्य॒ वाजे॒ पुरु॑षस्य मा॒यौ। इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना ॥
स्वर सहित पद पाठरा॒ज॒न्ये᳡ । दु॒न्दु॒भौ । आऽय॑तायाम् । अश्व॑स्य । वाजे॑ । पुरु॑षस्य । मा॒यौ । इन्द्र॑म् । या । दे॒वी । सु॒ऽभगा॑ । ज॒जान॑ । सा । न॒: । आ । ए॒तु॒ । वर्च॑सा । स॒म्ऽवि॒दा॒ना ॥३८.४॥
स्वर रहित मन्त्र
राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ। इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥
स्वर रहित पद पाठराजन्ये । दुन्दुभौ । आऽयतायाम् । अश्वस्य । वाजे । पुरुषस्य । मायौ । इन्द्रम् । या । देवी । सुऽभगा । जजान । सा । न: । आ । एतु । वर्चसा । सम्ऽविदाना ॥३८.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 38; मन्त्र » 4
विषय - ऐश्वर्य पाने के लिये उपदेश।
पदार्थ -
(राजन्ये) क्षत्रिय में, (आयतायाम्) फली हुई (दुन्दुभौ) दुन्दुभी में, (अश्वस्य) घोड़े के (वाजे) बल में, (पुरुषस्य) मनुष्य के (मायौ) पित्त या शब्द में [जो ज्योति है] (या) जिस... म० १ ॥४॥
टिप्पणी -
४−(राजन्ये) अ० ५।१७।९। क्षत्रियकुले (दुन्दुभौ) अ० ५।२०।१। बृहड्ढक्कायाम् (आयतायाम्) दीर्घायाम् (अश्वस्य) तुरङ्गस्य (वाजे) बले (पुरुषस्य) मनुष्यस्य (मायौ) कृवापाजिमि०। उ० १।१। इति मिञ् प्रक्षेपणे−उण् अथवा माङ् माने शब्दे च−यु। पित्ते। शब्दे। अन्यद्गतम् ॥