Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 39/ मन्त्र 1
सूक्त - अथर्वा
देवता - बृहस्पतिः, त्विषिः
छन्दः - जगती
सूक्तम् - वर्चस्य सूक्त
यशो॑ ह॒विर्व॑र्धता॒मिन्द्र॑जूतं स॒हस्र॑वीर्यं॒ सुभृ॑तं॒ सह॑स्कृतम्। प्र॒सर्स्रा॑ण॒मनु॑ दी॒र्घाय॒ चक्ष॑से ह॒विष्म॑न्तं मा वर्धय ज्ये॒ष्ठता॑तये ॥
स्वर सहित पद पाठयश॑: । ह॒वि: । व॒र्ध॒ता॒म् । इन्द्र॑ऽजूतम् । स॒हस्र॑ऽवीर्यम् । सुऽभृ॑तम् । सह॑:ऽकृतम् । प्र॒ऽसर्स्रा॑णम् ।अनु॑ । दी॒र्घाय॑ । चक्ष॑से ।ह॒विष्म॑न्तम् । मा॒ । व॒र्ध॒य॒ । ज्ये॒ष्ठऽता॑तये ॥३९.१॥
स्वर रहित मन्त्र
यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम्। प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥
स्वर रहित पद पाठयश: । हवि: । वर्धताम् । इन्द्रऽजूतम् । सहस्रऽवीर्यम् । सुऽभृतम् । सह:ऽकृतम् । प्रऽसर्स्राणम् ।अनु । दीर्घाय । चक्षसे ।हविष्मन्तम् । मा । वर्धय । ज्येष्ठऽतातये ॥३९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 39; मन्त्र » 1
विषय - यश पाने का उपदेश।
पदार्थ -
(इन्द्रजूतम्) परमेश्वर का भेजा हुआ (सहस्रवीर्यम्) सहस्रों सामर्थ्यवाला (सुभृतम्) अच्छे प्रकार भरा गया (सहस्कृतम्) पराक्रम से किया गया (यशः) यश और (हविः) अन्न (वर्धताम्) बढ़े। [हे परमेश्वर !] (दीर्घाय) बड़े और (ज्येष्ठतातये) अत्यन्त प्रशंसनीय (चक्षसे) दर्शन के लिये (प्रसर्स्राणम्) आगे बढ़नेवाले और (हविष्मन्तम्) भक्तिवाले (मा) मुझको (अनु) निरन्तर (वर्धय) तू बढ़ा ॥१॥
भावार्थ - मनुष्य परमेश्वर की प्रार्थना करके पुरुषार्थपूर्वक संसार में कीर्ति और अन्न आदि पदार्थ प्राप्त करे ॥१॥
टिप्पणी -
१−(यशः) कीर्त्तिः (हविः) देवयोग्यान्नम् (वर्धताम्) समृध्यताम् (इन्द्रजूतम्) परमेश्वरेण प्रेरितम् (सहस्रवीर्यम्) बहुसामर्थ्ययुक्तम् (सुभृतम्) यथावत्पोषितम् (सहस्कृतम्) बलेन सम्पादितम् (प्रसर्स्राणम्) सृ गतौ−यङ्लुकि ताच्छील्ये चानश्। अतिप्रसरणशीलम्। उद्योगिनम् (अनु) पश्चात्। निरन्तरम् (दीर्घाय) प्रवृद्धाय (चक्षसे) दर्शनाय (हविष्मन्तम्) भक्तिमन्तम् (मा) माम् (वर्धय) समर्धय (ज्येष्ठतातये) ज्येष्ठा प्रशस्ता तातिर्विस्तारो यस्य तस्मै। यद्वा। वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि। पा० ५।४।४१। इति प्रसशायां तातिल्। अतिविस्तारयुक्ताय। अत्यन्तप्रशंसनीयाय ॥