Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 44/ मन्त्र 2
सूक्त - विश्वामित्र
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - रोगनाशन सूक्त
श॒तं या भे॑ष॒जानि॑ ते स॒हस्रं॒ संग॑तानि च। श्रेष्ठ॑मास्रावभेष॒जं वसि॑ष्ठं रोग॒नाश॑नम् ॥
स्वर सहित पद पाठश॒तम् । या । भे॒ष॒जानि॑ । ते॒ । स॒हस्र॑म् । समऽग॑तानि । च॒ । श्रेष्ठ॑म् । आ॒स्रा॒व॒ऽभे॒ष॒जम् । वसि॑ष्ठम् । रो॒ग॒ऽनाश॑नम् ॥४४.२॥
स्वर रहित मन्त्र
शतं या भेषजानि ते सहस्रं संगतानि च। श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् ॥
स्वर रहित पद पाठशतम् । या । भेषजानि । ते । सहस्रम् । समऽगतानि । च । श्रेष्ठम् । आस्रावऽभेषजम् । वसिष्ठम् । रोगऽनाशनम् ॥४४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 44; मन्त्र » 2
विषय - रोग के नाश के लिये उपदेश।
पदार्थ -
[हे मनुष्य !] (ते) तेरे लिये (या) जो (शतम्) सौ (च) और (सहस्रम्) सहस्र (भेषजानि) ओषधियाँ (संगतानि) परस्पर मेलवाली हैं, [उनमें से] (वसिष्ठम्) अतिशय धनी वा निवास करनेवाला ब्रह्म (श्रेष्ठम्) अति श्रेष्ठ (आस्रावभेषजम्) रुधिर के बहाव वा घाव की औषध और (रोगनाशनम्) रोगों का नाश करनेवाला है ॥२॥
भावार्थ - योगीजन सब पदार्थों से गुण ग्रहण करके उस परब्रह्म की आज्ञापालन से सदा स्वस्थ और सुखी रहते हैं ॥२॥
टिप्पणी -
२−(शतम्) (या) यानि (भेषजानि) भयनिवर्त्तकानि। औषधानि (ते) तुभ्यम् (सहस्रम्) बहूनि (संगतानि) परस्परमिलितानि (च) (श्रेष्ठम्) सर्वेषां प्रशस्ततमम् (आस्रावभेषजम्) आस्रावः−अ० १।२।४। आङ्+स्रु स्रवणे−ण। आस्रावस्य रुधिरादिस्रवणस्य आघातस्य वौषधम् (वसिष्ठम्) अ० ४।२९।३। अतिशयेन धनयुक्तम्। वस्तृतमं ब्रह्म (रोगनाशनम्) सर्वव्याधिनाशकम् ॥