Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 3
सूक्त - शन्ताति
देवता - रुद्रः
छन्दः - निचृदनुष्टुप्
सूक्तम् - सर्परक्षण सूक्त
सं ते॑ हन्मि द॒ता द॒तः समु॑ ते॒ हन्वा॒ हनू॑। सं ते॑ जि॒ह्वया॑ जि॒ह्वां सम्वा॒स्नाह॑ आ॒स्यम् ॥
स्वर सहित पद पाठसम् । ते॒ । ह॒न्मि॒ । द॒ता । द॒त: । सम् । ऊं॒ इति॑ । ते॒ । हन्वा॑ । हनू॒ इति॑ । सम् । ते॒ । जि॒ह्वया॑ । जि॒ह्वाम् । सम् । ऊं॒ इति॑ । आ॒स्ना । अ॒हे॒ । आ॒स्य᳡म् ॥५६.३॥
स्वर रहित मन्त्र
सं ते हन्मि दता दतः समु ते हन्वा हनू। सं ते जिह्वया जिह्वां सम्वास्नाह आस्यम् ॥
स्वर रहित पद पाठसम् । ते । हन्मि । दता । दत: । सम् । ऊं इति । ते । हन्वा । हनू इति । सम् । ते । जिह्वया । जिह्वाम् । सम् । ऊं इति । आस्ना । अहे । आस्यम् ॥५६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 3
विषय - दोष के नाश के लिये उपदेश।
पदार्थ -
(अहे) हे सर्प ! (ते) तेरे (दता) दाँत से (दतः) दाँतों को (सम् हन्मि) मिला कर तोड़ता हूँ, (उ) और (ते) तेरे (हन्वा) जावड़े से (हनू) दोनों जाबड़ों को (सम्) म।सल कर, (ते) तेरी (जिह्वया) जीभ से (जिह्वाम्) जीभ को (सम्) मसलकर (उ) और (आस्ना) मुख से (आस्यम्) मुख को (सम्) मिला कर [तोड़ता हूँ] ॥३॥
भावार्थ - जैसे मनुष्य विषैले साँप को कुचल कर मार डालते हैं, उसी प्रकार से विद्वान् पुरुष अपने पापों का सर्वथा नाश करे ॥३॥
टिप्पणी -
३−(सम्) संयोज्य (ते) तव (हन्मि) नाशयामि (दता) पद्दन्नोमास्०। पा० ६।१।६३। इति दन्तस्य दत्। दन्तेन (दतः) हसिमृग्रिण्०। उ० ३।८६। इति दमु शमने−तन्। दन्तान् (सम्) (उ) समुच्चये (हन्वा) मुखावयवविशेषेण (हनू) हनुद्वयम् (सम्) (ते) (जिह्वया) रसनया (जिह्वाम्) रसनाम् (सम्) (उ) (आस्ना) पद्दन्नो०। इति आस्यस्य आसन्। आस्येन (अहे) म० १। हे आहननशील सर्प (आस्यम्) मुखम् ॥