Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 64/ मन्त्र 3
सूक्त - अथर्वा
देवता - विश्वे देवाः, मनः
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः। स॑मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥
स्वर सहित पद पाठस॒मा॒नी । व॒: । आऽकू॑ति: । स॒मा॒ना । हृद॑यानि । व॒: । स॒मा॒नम् । अ॒स्तु॒ । व: । मन॑: । यथा॑ । व॒: । सुऽस॑ह । अस॑ति॥६४.३॥
स्वर रहित मन्त्र
समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति ॥
स्वर रहित पद पाठसमानी । व: । आऽकूति: । समाना । हृदयानि । व: । समानम् । अस्तु । व: । मन: । यथा । व: । सुऽसह । असति॥६४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 64; मन्त्र » 3
विषय - संगति के लाभ का उपदेश।
पदार्थ -
(वः) तुम्हारा (आकूतिः) निश्चय, उत्साह, अथवा सङ्कल्प (समानी) एकसा और (वः) तुम्हारे (हृदयानि) हृदय [हार्दिक कर्म] (समाना) एक से होवें। (वः) तुम्हारा (मनः) मन [मनन कर्म] (समानम्) एकसा (अस्तु) होवे, (यथा) जिससे (वः) तुम्हारी (असति) गति (सुसह) बड़ा सहाय करनेवाली होवे ॥३॥
भावार्थ - मनुष्य धर्म के विचारों में प्रीतिपूर्वक एकमत होकर अपने सब काम समाज द्वारा सिद्ध करके सुख बढ़ावें ॥३॥
टिप्पणी -
३−(समानी) एकरूपा (वः) युष्माकम् (आकूतिः) अध्यवसाय उत्साह आप्तरीतिः संकल्पो वा (समाना) अविरुद्धानि (हृदयानि) हार्दिककर्माणि (वः) (समानम्) तुल्यम् (अस्तु) भवतु (वः) युष्माकम् (मनः) मननम्। सङ्कल्पविपकल्पात्मकेन्द्रियव्यापारः (यथा) येन प्रकारेण (वः) युष्माकम् (सुसह) अव्ययम्। सुष्ठु धर्मेण सह सहायिका भवतु (असति) अमेरतिः। उ० ४।५९। इति अस गतौ−अति। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्लुक्। असतिः। गतिः ॥