Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 67/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
मू॒ढा अ॒मित्रा॑श्चरताशी॒र्षाण॑ इ॒वाह॑यः। तेषां॑ वो अ॒ग्निमू॑ढाना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम् ॥
स्वर सहित पद पाठमू॒ढा: । अ॒मित्रा॑: । च॒र॒त॒ । अ॒शी॒र्षाण॑:ऽइव । अह॑य: । तेषा॑म् । व॒: । अ॒ग्निऽमू॑ढानाम् ।इन्द्र॑: । ह॒न्तु॒ । वर॑म्ऽवरम् ॥६७.२॥
स्वर रहित मन्त्र
मूढा अमित्राश्चरताशीर्षाण इवाहयः। तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥
स्वर रहित पद पाठमूढा: । अमित्रा: । चरत । अशीर्षाण:ऽइव । अहय: । तेषाम् । व: । अग्निऽमूढानाम् ।इन्द्र: । हन्तु । वरम्ऽवरम् ॥६७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 67; मन्त्र » 2
विषय - सेनापति के लक्षणों का उपदेश।
पदार्थ -
(मूढाः) हे घबड़ाये हुए (अमित्राः) पीड़ा देनेवाले शत्रुओं ! (अशीर्षाणः) बिना शिरवाले [शिर कटे] (अहयः इव) साँपों के समान (चरत) चेष्टा करो। (इन्द्रः) प्रतापी वीर राजा (अग्निमूढानाम्) अग्नि [आग्नेय शस्त्रों] से घबड़ाये हुए (तेषां वः) उन तुम सबों में से (वरंवरम्) अच्छे-अच्छों को चुन कर (हन्तु) मारे ॥२॥
भावार्थ - कुशल सेनापति इस प्रकार व्यूहरचना करे कि शत्रु के सेनादल विध्वंस होकर घबड़ा जावें और उनके बड़े-बड़े नायक मारे जावें ॥२॥
टिप्पणी -
२−(मूढाः) मुह वैचित्ये−क्त। व्याकुलाः (अमित्राः) पीडकाः शत्रवः (चरत) चेष्टां कुरुत (अशीर्षाणः) शीर्षंश्छन्दसि। प० ६।१।६०। इति शिरः शब्दस्य शीर्षन्। अशिरसः। छिन्नशिरस्काः (इव) यथा (अहयः) अ० २।५।५। आहन्तारः सर्पाः (तेषाम्) तादृशानाम् (वः) युष्माकम् (अग्निमूढानाम्) अग्निना आग्नेयास्त्रैर्व्याकुलीकृतानां मध्ये (इन्द्रः) प्रतापी वीरो राजा (हन्तु) नाशयतु (वरंवरम्) श्रेष्ठं श्रेष्ठं नायकम् ॥