Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 67/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ऐषु॑ नह्य॒ वृषा॒जिनं॑ हरि॒णस्या॒ भियं॑ कृधि। परा॑ङ॒मित्र॒ एष॑त्व॒र्वाची॒ गौरुपे॑षतु ॥
स्वर सहित पद पाठआ । ए॒षु॒ । न॒ह्य॒ । वृषा॑ । अ॒जिन॑म् । ह॒रि॒णस्य॑ । भिय॑म् । कृ॒धि॒ । परा॑ङ् । अ॒मित्र॑: । एष॑तु । अ॒र्वाची॑ । गौ: । उप॑ । ए॒ष॒तु॒॥६७.३॥
स्वर रहित मन्त्र
ऐषु नह्य वृषाजिनं हरिणस्या भियं कृधि। पराङमित्र एषत्वर्वाची गौरुपेषतु ॥
स्वर रहित पद पाठआ । एषु । नह्य । वृषा । अजिनम् । हरिणस्य । भियम् । कृधि । पराङ् । अमित्र: । एषतु । अर्वाची । गौ: । उप । एषतु॥६७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 67; मन्त्र » 3
विषय - सेनापति के लक्षणों का उपदेश।
पदार्थ -
[हे सेनापति !] (एषु) इन [अपने वीरों] में (वृषा=वृष्णः) ऐश्वर्यवान् पुरुष का (अजिनम्) चर्म [कवच] (आ नह्य) पहिना दे, और [शत्रुओं में] (हरिणस्य) हरिण का (भियम्) डरपोकपन (कृधि) करदे। (अमित्रः) शत्रु (पराङ्) उलटे मुख होकर, (एषतु) चला जावे (गौः) भूमि [युद्धभूमि और राज्य] (अर्वाची) हमारी ओर (उप एषतु) चली आवे ॥३॥
भावार्थ - सेनापति अपने वीरों को कवच आदि पहिना कर शत्रुओं को भयभीत करके रणभूमि और राज्य अपने हाथ करे ॥३॥
टिप्पणी -
३−(एषु) स्वभटेषु (आ नह्य) आवधान। आच्छादय (वृषा) सुपां सुलुक्०। पा० ७।१।३९। इति षष्ठ्याः सु। वृष्णः। इन्द्रस्य। ऐश्वर्यवतः पुरुषस्य (अजिनम्) अ० ४।७।६। चर्म। कवचम् (हरिणस्य) मृगस्य (भियम्) भीतिम् (कृधि) कुरु शत्रुषु (पराङ्) षण्मुखः सन् (अमित्रः) शत्रुः (एषतु) इष गतौ गच्छतु। पलायताम् (अर्वाची) अस्मदभिमुखा। अनुकूला (गौः) पृथ्वी−निघ० १।१। रणभूमिः। राजभूमिः (उप एषतु) समीपं प्राप्नोतु ॥