Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 69/ मन्त्र 2
सूक्त - अथर्वा
देवता - बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - वर्चस् प्राप्ति सूक्त
अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती। यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॒ अनु॑ ॥
स्वर सहित पद पाठअश्वि॑ना । सा॒र॒घेण॑ । मा॒ । मधु॑ना । अ॒ङ्क्त॒म् । शु॒भ॒: । प॒ती॒ इति॑ । यथा॑ । भर्ग॑स्वतीम् । वाच॑म् । आ॒ऽवदा॑नि । जना॑न् । अनु॑ ॥६९.२॥
स्वर रहित मन्त्र
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती। यथा भर्गस्वतीं वाचमावदानि जनाँ अनु ॥
स्वर रहित पद पाठअश्विना । सारघेण । मा । मधुना । अङ्क्तम् । शुभ: । पती इति । यथा । भर्गस्वतीम् । वाचम् । आऽवदानि । जनान् । अनु ॥६९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 69; मन्त्र » 2
विषय - यश की प्राप्ति का उपदेश।
पदार्थ -
(शुभः) शुभ कर्म के (पती) पालन करनेवाले (अश्विना) हे कर्मों में व्याप्तिवाले माता-पिता ! (सारघेण) सार अर्थात् बल वा धन के पहुँचानेवाले (मधुना) ज्ञान से (मा) मुझ को (अङ्क्तम्) प्रकाशित करो। (यथा) जिससे (जनान् अनु) मनुष्यों के बीच (भर्गस्वतीम्) तेजोमयी (वाचम्) वाणी को (आवदानि) मैं बोला करूँ ॥२॥
भावार्थ - मनुष्यों को योग्य है कि माता-पिता से उत्तम शिक्षा पाकर मनुष्यों में सारगर्भित सत्य वचन बोलें ॥२॥
टिप्पणी -
२−(अश्विना) अ० ६।३।३। कर्मसु व्याप्तिमन्तौ मातापितरौ (सारघेण) सार+घट संघाते, चुरादौ−ड। सारं घाटयति संग्राहयतीति तेन। सारस्य बलस्य धनस्य वा संग्राहकेण (मधुना) मन ज्ञाने−उ, नस्य धः। ज्ञानेन (अङ्क्तम्) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु−लोट्। प्रकाशयतम् (शुभः) शोभनस्य कर्मणः (पती) पालकौ (यथा) येन प्रकारेण (भर्गस्वतीम्) तेजोमयीम् (वाचम्) वाणीम् (आवदानि) उच्चारयाणि (जनान्) मनुष्यान् (अनु) अनुलक्ष्य ॥