Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 77/ मन्त्र 2
सूक्त - कबन्ध
देवता - जातवेदा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - प्रतिष्ठापन सूक्त
य उ॒दान॑ट् प॒राय॑णं॒ य उ॒दान॒ण्न्याय॑नम्। आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥
स्वर सहित पद पाठय: । उ॒त्ऽआन॑ट् । प॒रा॒ऽअय॑नम् । य: । उ॒त्ऽआन॑ट् । नि॒ऽअय॑नम् । आ॒ऽवर्त॑नम् । नि॒ऽवर्त॑नम् । य: । गो॒पा: । अपि॑ । तम् । हु॒वे॒ ॥७७.२॥
स्वर रहित मन्त्र
य उदानट् परायणं य उदानण्न्यायनम्। आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥
स्वर रहित पद पाठय: । उत्ऽआनट् । पराऽअयनम् । य: । उत्ऽआनट् । निऽअयनम् । आऽवर्तनम् । निऽवर्तनम् । य: । गोपा: । अपि । तम् । हुवे ॥७७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 77; मन्त्र » 2
विषय - संपदा पाने का उपदेश।
पदार्थ -
(यः) जिस (गोपाः) भूमिपालक राजा ने (परायणम्) निकल जाने का सामर्थ्य (उदानट्) पाया है, (यः) जिस ने (न्यायनम्) भीतर जाने का सामर्थ्य, और (यः) जिसने (आवर्तनम्) घूमने और (निवर्तनम्) लौटने का सामर्थ्य (उदानट्) पाया है, (तम्) उसको (अपि) ही (हुवे) मैं बुलाता हूँ ॥२॥
भावार्थ - जो मनुष्य नीतिनिपुण और कलाकुशल होवे, उसका आदर सत्कार सब मनुष्य करें ॥२॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म० १० सू० १९ म० ५ ॥
टिप्पणी -
२−(यः) बलवान् पुरुषः (उदानट्) उत्+अशू व्याप्तौ संघाते च लिटि एश्त्वे, एशो लुक्, व्रश्चादिना षत्वम्। झलां जशोऽन्ते। पा० ८।२।३९। इति डत्वम्। वावसाने। पा० ६।४।५६। इति टत्वम्। आनट्, व्याप्तिकर्मा−निघ० २।१८। उत्कर्षेण व्याप प्राप (परायणम्) बहिर्गमनसामर्थ्यम् (यः) (उदानट्) (न्यायनम्) सांहितिको दीर्घः। अन्तर्गमनम् (आवर्तनम्) चक्रवत् परिक्रमणम् (निवर्तनम्) निवृत्य गमनम् (यः) (गोपाः) गो+पा रक्षणे−विच्। भूमिपालकः। राजा (अपि) एव (तम्) तादृशम् (हुवे) आह्वयामि ॥