Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 79/ मन्त्र 1
सूक्त - अथर्वा
देवता - संस्फानम्
छन्दः - गायत्री
सूक्तम् - ऊर्जा प्राप्ति सूक्त
अ॒यं नो॒ नभ॑स॒स्पतिः॑ सं॒स्फानो॑ अ॒भि र॑क्षतु। अस॑मातिं गृ॒हेषु॑ नः ॥
स्वर सहित पद पाठअ॒यम् । न॒: । नभ॑स: । पति॑: । स॒म्ऽस्फान॑: । अ॒भि । र॒क्ष॒तु॒ । अस॑मातिम् । गृ॒हेषु॑ । न॒: ॥७९.१॥
स्वर रहित मन्त्र
अयं नो नभसस्पतिः संस्फानो अभि रक्षतु। असमातिं गृहेषु नः ॥
स्वर रहित पद पाठअयम् । न: । नभस: । पति: । सम्ऽस्फान: । अभि । रक्षतु । असमातिम् । गृहेषु । न: ॥७९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 79; मन्त्र » 1
विषय - सर्वसम्पत्ति पाने का उपदेश।
पदार्थ -
(अयम्) यह (नभसः) सूर्यलोक का (पतिः) स्वामी परमेश्वर (संस्फानः) यथावत् बढ़ता हुआ (नः) हमारे लिये (नः) हमारे (गृहेषु) घरों में (असमातिम्) असामान्य [विशेष] लक्ष्मी वा बुद्धि (अभि) सब ओर से (रक्षतु) रक्खे ॥१॥
भावार्थ - मनुष्य सूर्य आदि लोकों के स्वामी परमात्मा की महिमा विचारते हुए विद्या आदि शुभ गुणों की प्राप्ति से असाधारण धन और बुद्धि पाकर आनन्द भोगें ॥१॥
टिप्पणी -
१−(अयम्) सर्वव्यापकः (नः) अस्मदर्थम् (नभसः) अ० ४।१५।३। णह बन्धने−असुन्। हस्य भः। नभ आदित्यो भवति−निरु० २।१४। सूर्यस्य (पतिः) पालयिता परमेश्वरः (संस्फानः) स्फायी वृद्धौ−क्त, छान्दसं रूपम्। सम्यक् स्फीतः प्रवृद्धः (अभि) सर्वतः (रक्षतु) पातु (असमातिम्) असेस्तिः। उ० ४।१८०। माङ् माने−ति, यद्वा, मनु अवबोधने−क्तिन्, दीर्घश्च समानस्य सः। असमानां विशेषां मां लक्ष्मीं मतिं बुद्धिं वा (गृहेषु) गेहेषु (नः) अस्माकम् ॥