Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 9/ मन्त्र 2
सूक्त - जमदग्नि
देवता - कामात्मा
छन्दः - अनुष्टुप्
सूक्तम् - कामात्मा सूक्त
मम॒ त्वा दो॑षणि॒श्रिषं॑ कृ॒णोमि॑ हृदय॒श्रिष॑म्। यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥
स्वर सहित पद पाठमम॑ । त्वा॒ । दो॒ष॒णि॒ऽश्रिष॑म् । कृ॒णोमि॑ । हृ॒द॒य॒ऽश्रिष॑म् । यथा॑ । मम॑ । क्रतौ॑ । अस॑: । मम॑ । चि॒त्तम् । उ॒प॒ऽआय॑सि ॥९.२॥
स्वर रहित मन्त्र
मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम्। यथा मम क्रतावसो मम चित्तमुपायसि ॥
स्वर रहित पद पाठमम । त्वा । दोषणिऽश्रिषम् । कृणोमि । हृदयऽश्रिषम् । यथा । मम । क्रतौ । अस: । मम । चित्तम् । उपऽआयसि ॥९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 9; मन्त्र » 2
विषय - गृहस्थ आश्रम का उपदेश।
पदार्थ -
(त्वा) तुझको (मम) अपने (दोषणिश्रिषम्) भुजा पर आश्रयवाली और (हृदयश्रिषम्) हृदय में आश्रयवाली (कृणोमि) मैं करता हूँ। (यथा) जिससे (मम) मेरे (कृतौ) कर्म वा बुद्धि में (असः) तू रहे, (मम) मेरे (चित्तम्) चित्त में (उपायसि) तू पहुँचती है ॥२॥
भावार्थ - पति और पत्नी परस्पर पुरुषार्थ और प्रीतिपूर्वक गृहस्थ आश्रम को यथावत् सिद्ध करें ॥२॥
टिप्पणी -
२−(मम) (त्वा) त्वाम् (दोषणिश्रिषम्) श्रिषु दाहे, श्रिष आलिङ्गने इति सायण−क्विप्। पद्दन्नोमास्०। पा० ६।१।६३। इति दोः शब्दस्य दोषन्। सप्तम्या अलुक्। बाहौ पुरुषार्थे आश्रिताम् (कृणोमि) करोमि (हृदयश्रिषम्) हृदयाश्रिताम् (यथा) यस्मात्कारणात्। अन्यद् व्याख्यातम्। अ० १।३४।२। (मम) (कृतौ) कर्मणि बुद्धौ वा (असः) त्वं भूयाः (मम) (चित्तम्) अन्तःकरणम् (उपायसि) उप+आङ्+अय गतौ। उपागच्छसि। आदरेण प्राप्नोषि ॥