Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 9/ मन्त्र 3
यासां॒ नाभि॑रा॒रेह॑णं हृ॒दि सं॒वन॑नं कृ॒तम्। गावो॑ घृ॒तस्य॑ मा॒तरो॒ऽमूं सं वा॑नयन्तु मे ॥
स्वर सहित पद पाठयासा॑म् । नाभि॑: । आ॒ऽरेह॑णम् । हृ॒दि। स॒म्ऽवन॑नम् । कृ॒तम् । गाव॑: । घृ॒तस्य॑ । मा॒तर॑: । अ॒भूम् । सम् । व॒न॒य॒न्तु॒ । मे॒ ॥९.३॥
स्वर रहित मन्त्र
यासां नाभिरारेहणं हृदि संवननं कृतम्। गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥
स्वर रहित पद पाठयासाम् । नाभि: । आऽरेहणम् । हृदि। सम्ऽवननम् । कृतम् । गाव: । घृतस्य । मातर: । अभूम् । सम् । वनयन्तु । मे ॥९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 9; मन्त्र » 3
विषय - गृहस्थ आश्रम का उपदेश।
पदार्थ -
(यासाम्) जिन [स्त्रियों] के (हृदि) हृदय में (नाभिः) स्नेह, (आरेहणम्) प्रशंसा और (संवननम्) भक्ति (कृतम्) की गयी है, (घृतस्य) घृत की (मातरः) बनानेवाली (गावः) गौएँ (अमूम्) उस [पत्नी] को (मे) मेरे लिये (सम्) यथावत् (वनयन्तु) सेवन करें ॥३॥
भावार्थ - जहाँ पर पति-पत्नी प्रीतिपूर्वक रहते हैं, वहाँ घृत दुग्ध आदि पदार्थों की बहुतायत होती है ॥३॥
टिप्पणी -
३−(यासाम्) आदरार्थं बहुवचनम्। स्त्रीणाम् (नाभिः) बन्धनम्। स्नेहः (आरेहणम्) रिह कत्थने−ल्युट्। प्रशंसनम् (हृदि) हृदये (संवननम्) संभक्तिः (कृतम्) निष्पादितम् (गावः) धेनवः (घृतस्य) आज्यादिपदार्थस्य (मातरः) निर्मात्र्यः (अमूम्) पत्नीम् (सम्) सम्यक् (वानयन्तु) दीर्घश्छान्दसः। संभजन्ताम्। सेवन्ताम् (मे) मदर्थम् ॥