अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 3
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि। अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम् ॥
स्वर सहित पद पाठयत॑: । द॒ष्टम् । यत॑: । धी॒तम् । तत॑: । ते॒ । नि: । ह्व॒या॒म॒सि॒ । अ॒र्भस्य॑ । तृ॒प्र॒ऽदं॒शिन॑: । म॒शक॑स्य । अ॒र॒सम् । वि॒षम् ॥५८.३॥
स्वर रहित मन्त्र
यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि। अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥
स्वर रहित पद पाठयत: । दष्टम् । यत: । धीतम् । तत: । ते । नि: । ह्वयामसि । अर्भस्य । तृप्रऽदंशिन: । मशकस्य । अरसम् । विषम् ॥५८.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 3
विषय - विष नाश का उपदेश।
पदार्थ -
[हे मनुष्य !] (यतः) जहाँ पर (दष्टम्) काटा गया है और (यतः) जहाँ पर (धीतम्) [रुधिर] पिया गया है, (ते) तेरे (ततः) उसी [अङ्ग] से (अर्भस्य) छोटे (तृप्रदंशिनः) तीव्र काटनेवाले (मशकस्य) मच्छर के (अरसम्) निर्बल [किये हुए] (विषम्) विष को (निः) निकालकर (ह्वयामसि) हम वचन देते हैं ॥३॥
भावार्थ - मनुष्य सुपरीक्षित ओषधियों से प्रयत्नपूर्वक विष आदि रोग नाश करें ॥३॥
टिप्पणी -
३−(यतः) सप्तम्यर्थे तसिः। यस्मिन् देशे (दष्टम्) हिंसितम् (यतः) यस्मिन्नङ्गे (धीतम्) धेट् पाने-क्त। रुधिरं पीतम् (ततः) तस्मादङ्गात् (ते) तव (निः) निःसार्य (ह्वयामसि) कथयामः (अर्भस्य) अल्पस्य (तृप्रदंशिनः) तृप संदीपने प्रीणने च-रक्+दंश दंशने-णिनि। तीव्रदंशनशीलस्य (मशकस्य) मश ध्वनौ कोपे च−वुन्। कीटभेदस्य (अरसम्) निर्बलं कृतम् (विषम्) ॥