अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 5
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
अ॑र॒सस्य॑ श॒र्कोट॑स्य नी॒चीन॑स्योप॒सर्प॑तः। वि॒षं ह्यस्यादि॒ष्यथो॑ एनमजीजभम् ॥
स्वर सहित पद पाठअ॒र॒सस्य॑ । श॒र्कोट॑स्य । नी॒चीन॑स्य । उ॒प॒ऽसर्प॑त: । वि॒षम् । हि । अ॒स्य॒ । आ॒ऽअदि॑षि । अथो॒ इति॑ । ए॒न॒म् । अ॒जी॒ज॒भ॒म् ॥५८.५॥
स्वर रहित मन्त्र
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः। विषं ह्यस्यादिष्यथो एनमजीजभम् ॥
स्वर रहित पद पाठअरसस्य । शर्कोटस्य । नीचीनस्य । उपऽसर्पत: । विषम् । हि । अस्य । आऽअदिषि । अथो इति । एनम् । अजीजभम् ॥५८.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 5
विषय - विष नाश का उपदेश।
पदार्थ -
(अस्य) इस (अरसस्य) निर्बल [तुच्छ वा काटनेवाले], (नीचीनस्य) नीचे पड़े हुए, (उपसर्पतः) रेंगते हुए, (शर्कोटस्य) काटकर टेढ़ा कर देनेवाले [बिच्छू आदि] के (विषम्) विष को (हि) निश्चय करके (आ-अदिषि) मैंने खण्डित कर दिया है (अथो) और (एनम्) इस [जन्तु] को (अजीजभम्) मैंने कुचल डाला है ॥५॥
भावार्थ - बिच्छू आदि के विष को हटाकर उस विषैले जन्तु को भी मार डालें, जिससे वह औरों को न सतावे ॥५॥
टिप्पणी -
५−(अरसस्य) निर्बलस्य तुच्छस्य। यद्वा। अत्यविचमितमि०। उ० ३।११७। ऋ हिंसायाम्-असच्। हिंसकस्य (शर्कोटस्य) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। शॄ हिंसायां-विच्+कुट कौटिल्ये-घञ्। शरा हिंसनेन कुटिलीकरस्य (नीचीनस्य) नीच-ख। नीचदेशे भवस्य (उपसर्पतः) समीपं गच्छतः (विषम्) (हि) अवश्यम् (आ-अदिषि) दो खण्डने लुङ्, अत्मनेपदं छान्दसम्। सर्वतः खण्डितवानस्मि (अथो) अपि च (एनम्) जन्तुम् (अजीजभम्) जभि हिंसने। अनीनशम् ॥