अथर्ववेद - काण्ड 7/ सूक्त 60/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः, गृहसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - रम्यगृह सूक्त
इ॒मे गृ॒हा म॑यो॒भुव॒ ऊर्ज॑स्वन्तः॒ पय॑स्वन्तः। पू॒र्णा वा॒मेन॒ तिष्ठ॑न्त॒स्ते नो॑ जानन्त्वाय॒तः ॥
स्वर सहित पद पाठइ॒मे । गृ॒हा: । म॒य॒:ऽभुव॑: । ऊर्ज॑स्वन्त: । पय॑स्वन्त: । पू॒र्णा: । वा॒मेन॑ । तिष्ठ॑न्त: । ते । न॒: । जा॒न॒न्तु॒ । आ॒ऽय॒त: ॥६२.२॥
स्वर रहित मन्त्र
इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः। पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥
स्वर रहित पद पाठइमे । गृहा: । मय:ऽभुव: । ऊर्जस्वन्त: । पयस्वन्त: । पूर्णा: । वामेन । तिष्ठन्त: । ते । न: । जानन्तु । आऽयत: ॥६२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 60; मन्त्र » 2
विषय - कुवचन के त्याग का उपदेश।
पदार्थ -
(इमे) यह (गृहाः) घर के लोग (मयोभुवः) आनन्द देनेवाले, (ऊर्जस्वन्तः) बड़े पराक्रमी, (पयस्वन्तः) उत्तम जल, दुग्ध आदिवाले, (वामेन) उत्तम धन से (पूर्णाः) भरपूर (तिष्ठन्तः) खड़े हुए हैं। (ते) वे लोग (आयतः) आते हुए (नः) हमको (जानन्तु) जानें ॥२॥
भावार्थ - घर के लोग बाहिर से आये हुए गृहस्थों और अतिथियों का यथावत् सत्कार करें ॥२॥
टिप्पणी -
२−(इमे) (गृहाः) गृहस्थाः (मयोभुवः) अ० १।५।१। सुखस्य भावयितारः (ऊर्जस्वन्तः) अ० ३।१२।२। प्रभूतपराक्रमिणः (पयस्वन्तः) उत्तमजलदुग्धादिसमृद्धाः (पूर्णाः) समृद्धाः (वामेन) प्रशस्येन धनेन। वामः प्रशस्यः-निघ० ३।८। (तिष्ठन्तः) (ते) गृहाः (जानन्तु) अवबुध्यन्ताम् (आयतः) इण् गतौ-शतृ। आगच्छतः ॥