अथर्ववेद - काण्ड 7/ सूक्त 60/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः, गृहसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - रम्यगृह सूक्त
उप॑हूता॒ भूरि॑धनाः॒ सखा॑यः स्वा॒दुसं॑मुदः। अ॑क्षु॒ध्या अ॑तृ॒ष्या स्त॒ गृहा॒ मास्मद्बि॑भीतन ॥
स्वर सहित पद पाठउप॑ऽहूता: । भूरि॑ऽधना: । सखा॑य: । स्वा॒दुऽसं॑मुद: । अ॒क्षु॒ध्या: । अ॒तृ॒ष्या: । स्त॒ । गृहा॑: । मा । अ॒स्मत् । बि॒भी॒त॒न॒ ॥६२.४॥
स्वर रहित मन्त्र
उपहूता भूरिधनाः सखायः स्वादुसंमुदः। अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन ॥
स्वर रहित पद पाठउपऽहूता: । भूरिऽधना: । सखाय: । स्वादुऽसंमुद: । अक्षुध्या: । अतृष्या: । स्त । गृहा: । मा । अस्मत् । बिभीतन ॥६२.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 60; मन्त्र » 4
विषय - कुवचन के त्याग का उपदेश।
पदार्थ -
(भूरिधनाः) बड़े धनी, (स्वादुसंमुदः) स्वादिष्ठ पदार्थों से आनन्द करनेवाले (सखायः) मित्र लोग (उपहूताः) स्वागत किये गये हैं। (गृहाः) हे घर के लोगो ! (अक्षुध्याः, अतृष्याः, स्त) तुम भूखे-प्यासे मत रहो, (अस्मत्) हम से (मा बिभीतन) मत भय करो ॥४॥
भावार्थ - बाहिर से आये हुए और घरवाले सब पुरुष प्रसन्न होकर परस्पर आनन्द करें ॥४॥
टिप्पणी -
४−(उपहूताः) सत्कारेण प्रार्थिताः (भूरिधनाः) प्रभूतधनाः (सखायः) सुहृदः (स्वादुसंमुदः) स्वादुभी रोचकैः पदार्थैः संमोदमानाः (अक्षुध्याः) तदर्हति। पा० ५।१।६३। इत्यर्थे। छन्दसि च। पा० ५।१।६७। क्षुध्-य−प्रत्ययः। क्षुधं बुभुक्षामर्हन्तीति क्षुध्याः, न क्षुध्या अक्षुध्याः। क्षुधारहिताः (अतृष्याः) पूर्ववत् तृष्-य प्रत्ययः। तृष्णारहिताः (स्त) भवत (गृहाः) गृहस्थाः (अस्मत्) अस्मत्तः (मा बिभीतन) ञिभी भये लोटि तस्य तनादेशः। भयं मा प्राप्नुत ॥