अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 2
सूक्त - अथर्वा
देवता - अपचिद् भैषज्यम्
छन्दः - परोष्णिक्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
या ग्रैव्या॑ अप॒चितोऽथो॒ या उ॑पप॒क्ष्याः। वि॒जाम्नि॒ या अ॑प॒चितः॑ स्वयं॒स्रसः॑ ॥
स्वर सहित पद पाठया: । ग्रैव्या॑: । अ॒प॒ऽचित॑: । अथो॒ इति॑ । या: । उ॒प॒ऽप॒क्ष्या᳡: । वि॒ऽजाम्नि॑ । या: । अ॒प॒ऽचित॑: । स्व॒य॒म्ऽस्रस॑: ॥८०.२॥
स्वर रहित मन्त्र
या ग्रैव्या अपचितोऽथो या उपपक्ष्याः। विजाम्नि या अपचितः स्वयंस्रसः ॥
स्वर रहित पद पाठया: । ग्रैव्या: । अपऽचित: । अथो इति । या: । उपऽपक्ष्या: । विऽजाम्नि । या: । अपऽचित: । स्वयम्ऽस्रस: ॥८०.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 2
विषय - १-५ रोगनाश
पदार्थ -
(याः) जो (ग्रैव्याः) गले पर (अथो) और (याः) जो (उपपक्ष्याः) पक्खों [कन्धों] के जोड़ों पर (अपचितः) गण्डमालायें [फुड़ियाँ] हैं। और (याः) जो (स्वयंस्रसः) अपने आप बहनेवाली (अपचितः) फुंसियाँ (विजाम्नि) गुह्य स्थान पर हैं [उनको नष्ट दिया है-म० ३] ॥२॥
भावार्थ - दुःखदायी रोगों को वैद्य लोग नष्ट करें ॥२॥
टिप्पणी -
२−(याः) (ग्रैव्याः) अ० ६।२५।२। ग्रीवासु गलप्रदेशेषु भवा नाड्यः (अपचितः) अ० ६।८३।१। गण्डमालादिपीडाः (याः) (उपपक्ष्याः) उपपक्ष-यत्। उपपक्षे स्कन्धसन्धौ भवाः (विजाम्नि) विविधं जायते विजामा। अन्योभ्योऽपि दृश्यन्ते। पा० ३।२।७५। वि+जनी प्रादुर्भावे-मनिन्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। आत्वम्। गुह्यप्रदेशे (याः) (अपचितः) (स्वयंस्रसः)-म० १। व्रणरूपेण स्वयं स्रवणशीलाः ॥