Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 85/ मन्त्र 1
सूक्त - अथर्वा
देवता - तार्क्ष्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अरिष्टनेमि सूक्त
त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्। अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
स्वर सहित पद पाठत्यम् । ऊं॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । सह॑:ऽवानम् । त॒रु॒तार॑म् । रथा॑नाम् । अरि॑ष्टऽनेमिम् । पृ॒त॒ना॒ऽजिम् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । आ । हु॒वे॒म॒ ॥९०.१॥
स्वर रहित मन्त्र
त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम्। अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥
स्वर रहित पद पाठत्यम् । ऊं इति । सु । वाजिनम् । देवऽजूतम् । सह:ऽवानम् । तरुतारम् । रथानाम् । अरिष्टऽनेमिम् । पृतनाऽजिम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । आ । हुवेम ॥९०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 85; मन्त्र » 1
विषय - राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
(त्यम् उ) उस ही (वाजिनम्) अन्नवाले (देवजूतम्) विद्वानों से प्रेरणा किये गये, (सहोवानम्) महाबली, (रथानाम्) रथों के [जल थल और आकाश में] (तरुतारम्) तिराने [चलाने] वाले, (अरिष्टनेमिम्) अटूट वज्रवाले, (पृतनाजिम्) सेनाओं को जीतनेवाले (आशुम्) व्यापनेवाले, (तार्क्ष्यम्) महावेगवान् राजा को (इह) यहाँ पर (स्वस्तये) अपने कल्याण के लिये (सु) आदर से (आ) भले प्रकार (हुवेम) हम बुलावे ॥१॥
भावार्थ - विद्वान् प्रजागण उत्तम गुणी राजा को अपनी रक्षा के लिये आवाहन करते रहें ॥१॥ यह मन्त्र ऋग्वेद में है−१०।१७८।१। साम० य० ४।५।१, और निरुक्त १०।२८। में भी व्याख्यात है ॥
टिप्पणी -
१−(त्यम्) तं प्रसिद्धम् (उ) एव (सु) पूजायाम् (वाजिनम्) अन्नवन्तम् (देवजूतम्) जु गतौ-क्त। जूर्गतिः प्रीतिर्या देवजूतं देवगतं देवप्रीतं वा-निरु० १०।२८। विद्वद्भिः प्रेरितम् (सहोवानम्) छन्दसीवनिपौ च वक्तव्यौ। वा० पा० ५।२।१०९। सहस्-वनिप्। सहस्वन्तं बलवन्तम् (तरुतारम्) ग्रसितस्कभित०। पा० ७।२।३४। तरतेस्तृचि उडागमः। तरीतारम्। तारयितारम् (रथानाम्) यानानाम् (अरिष्टनेमिम्) रिष हिंसायाम्-क्त। नियो मिः। उ० ४।४३। णीञ् प्रापणे−मि। नेमिर्वज्रनाम-निघ० २।२०। अच्छिन्नवज्रम् (पृतनाजिम्) वातेर्डिच्च। उ० ४।१३४। जि जये-इण्, स च डित्। शत्रुसेनानां जेतारम् (आशुम्) अ० २।१४।६। अशूङ् व्याप्तौ संघाते च। उण्। व्यापनशीलम् (स्वस्तये) कल्याणाय (तार्क्ष्यम्) तृक्ष गतौ-घञ्, बाहुलकाद् वृद्धिः। तत्र साधुः। पा० ४।४।९८। तार्क्ष-यत्। तार्क्ष्ये वेगे साधुम्। वेगवन्तं राजानम्। तार्क्ष्योऽश्वनाम-निघ० १।१४। तार्क्ष्यस्त्वष्ट्रा व्याख्यातः, तीर्णेऽन्तरिक्षे क्षियति तूर्णमर्थं रक्षत्यश्नोतेर्वा-निरु० १०।२७। (इह) अत्र (आ हुवेम) अ० ७।४०।२। आह्वयेम ॥