Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 86/ मन्त्र 1
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - त्राता इन्द्र सूक्त
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म्। हु॒वे नु॑ श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति न॒ इन्द्रो॑ म॒घवा॑न्कृणोतु ॥
स्वर सहित पद पाठत्रा॒तार॑म् । इन्द्र॑म् । अ॒वि॒तार॑म् । इन्द्र॑म् । हवे॑ऽहवे । सु॒ऽहव॑म् । शूर॑म् । इन्द्र॑म् । हु॒वे । नु । श॒क्रम् । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् । स्व॒स्ति । न॒: । इन्द्र॑: । म॒घऽवा॑न् । कृ॒णो॒तु॒ ॥९१.१॥
स्वर रहित मन्त्र
त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम्। हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान्कृणोतु ॥
स्वर रहित पद पाठत्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेऽहवे । सुऽहवम् । शूरम् । इन्द्रम् । हुवे । नु । शक्रम् । पुरुऽहूतम् । इन्द्रम् । स्वस्ति । न: । इन्द्र: । मघऽवान् । कृणोतु ॥९१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 86; मन्त्र » 1
विषय - राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
(त्रातारम्) पालन करनेवाले (इन्द्रम्) बड़े ऐश्वर्यवाले राजा को, (अवितारम्) तृप्त करनेवाले (इन्द्रम्) सभाध्यक्ष [राजा] को, (हवेहवे) संग्राम-संग्राम में (सुहवम्) यथावत् संग्रामवाले, (शूरम्) शूर (इन्द्रम्) सेनापति [राजा] को, (शक्रम्) शक्तिमान्, (पुरुहूतम्) बहुत [लोगों] से पुकारे गये (इन्द्रम्) प्रतापी राजा को (नु) शीघ्र (हुवे) मैं बुलाता हूँ, (मघवान्) बड़ा धनवाला (इन्द्रः) राजा (नः) हमारे लिये (स्वस्ति) मङ्गल (कृणोतु) करे ॥१॥
भावार्थ - सब मनुष्य धर्म्मात्मा, न्यायकारी, जितेन्द्रिय, शूरवीर राजा का सदा आदर करें ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−६।४७।११, यजु० २०।५०, और साम० पू० ४।५।२ ॥
टिप्पणी -
१−(त्रातारम्) त्रैङ् पालने-तृच्। पालकम् (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (अवितारम्) तर्पयितारम् (इन्द्रम्) सभाध्यक्षम् (हवेहवे) सङ्ग्रामे सङ्ग्रामे (सुहवम्) यथावत् सङ्ग्रामिणम् (शूरम्) पराक्रमिणम् (इन्द्रम्) सेनापतिम् (हुवे) आह्वयामि (नु) शीघ्रम् (शक्रम्) अ० २।५।४। शक्तिमन्तम् (पुरुहूतम्) बहुभिः पुरुषैराहूतम् (इन्द्रम्) प्रतापिनम् (स्वस्ति) सुखम् (नः) अस्मभ्यम् (इन्द्रः) परमैश्वर्यः (मघवान्) अ० ६।५८।१। धनवान् (कृणोतु) करोतु ॥