अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 1
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - प्रतिसरमणि सूक्त
अ॒यं प्र॑तिस॒रो म॒णिर्वी॒रो वी॒राय॑ बध्यते। वी॒र्यवान्त्सपत्न॒हा शूर॑वीरः परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
स्वर सहित पद पाठअ॒यम् । प्र॒ति॒ऽस॒र: । म॒णि: । वी॒र: । वी॒राय॑ । ब॒ध्य॒ते॒ । वी॒र्य᳡वान् । स॒प॒त्न॒ऽहा । शूर॑ऽवीर: । प॒रि॒ऽपान॑: । सु॒ऽम॒ङ्गल॑: ॥५.१॥
स्वर रहित मन्त्र
अयं प्रतिसरो मणिर्वीरो वीराय बध्यते। वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥
स्वर रहित पद पाठअयम् । प्रतिऽसर: । मणि: । वीर: । वीराय । बध्यते । वीर्यवान् । सपत्नऽहा । शूरऽवीर: । परिऽपान: । सुऽमङ्गल: ॥५.१॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 1
विषय - हिंसा के नाश का उपदेश।
पदार्थ -
(अयम्) यह [प्रसिद्ध वेदरूप] (वीरः) पराक्रमी, (वीर्यवान्) सामर्थ्यवाला, (सपत्नहा) प्रतियोगियों का नाश करनेवाला, (शूरवीरः) शूरवीर, (परिपाणः) सब ओर से रक्षा करनेवाला, (सुमङ्गलः) बड़ा मङ्गलकारी, (प्रतिसरः) अग्रगामी, (मणिः) मणि [उत्तम नियम] (वीराय) वीर पुरुष में (बध्यते) बाँधा जाता है ॥१॥
भावार्थ - जो वीर पुरुष मणिरूप सर्वश्रेष्ठ वेदनियम पर चलते हैं, वे सुरक्षित रह कर सदा आनन्द भोगते हैं ॥१॥
टिप्पणी -
१−(अयम्) सुप्रसिद्धो वेदरूपः (प्रतिसरः) अ० २।११।२। अग्रगामी (मणिः) अ० १।२९।१। नियमरत्नम्। प्रशंसनीयो नियमः (वीराय) पराक्रमिणे पुरुषाय (बध्यते) संयुज्यते (वीर्यवान्) सामर्थ्यवान् (सपत्नहा) प्रतियोगिनाशकः (शूरवीरः) शूराणां मध्ये वीरः (परिपाणः) अ० २।१७।७। सर्वतो रक्षकः (सुमङ्गलः) अतिमङ्गलकारी ॥