अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 3
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - चतुष्पदा भुरिग्जगती
सूक्तम् - प्रतिसरमणि सूक्त
अ॒नेनेन्द्रो॑ म॒णिना॑ वृ॒त्रम॑हन्न॒नेनासु॑रा॒न्परा॑भावयन्मनी॒षी। अ॒नेना॑जय॒द्द्यावा॑पृथि॒वी उ॒भे इ॒मे अ॒नेना॑जयत्प्र॒दिश॒श्चत॑स्रः ॥
स्वर सहित पद पाठअ॒नेन॑ । इन्द्र॑: । म॒णिना॑ । वृ॒त्रम् । अ॒ह॒न् । अ॒नेन॑ । असु॑रान् । परा॑ । अ॒भा॒व॒य॒त् । म॒नी॒षी । अ॒नेन॑ । अ॒ज॒य॒त् । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । अ॒नेन॑ । अ॒ज॒य॒त् । प्र॒ऽदिश॑: । चत॑स्र: ॥५.३॥
स्वर रहित मन्त्र
अनेनेन्द्रो मणिना वृत्रमहन्ननेनासुरान्पराभावयन्मनीषी। अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥
स्वर रहित पद पाठअनेन । इन्द्र: । मणिना । वृत्रम् । अहन् । अनेन । असुरान् । परा । अभावयत् । मनीषी । अनेन । अजयत् । द्यावापृथिवी इति । उभे इति । इमे इति । अनेन । अजयत् । प्रऽदिश: । चतस्र: ॥५.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 3
विषय - हिंसा के नाश का उपदेश।
पदार्थ -
(मनीषी) महा बुद्धिमान् (इन्द्रः) बड़े प्रतापी पुरुष ने (अनेन) इस [प्रसिद्ध वेदरूप] (मणिना) मणि [उत्तम नियम] के द्वारा (वृत्रम्) अन्धकार (अहन्) मिटाया और (अनेन) इसी के द्वारा (असुरान्) असुरों को (परा अभावयत्) हराया (अनेन) इसी के द्वारा (उभे) दोनों (इमे) इन (द्यावापृथिवी) सूर्य और पृथिवी लोक को (अजयत्) जीता और (अनेन) इसी के द्वारा (चतस्रः) चारों (प्रदिशः) दिशाओं को (अजयत्) जीता ॥३॥
भावार्थ - वेदानुगामी बुद्धिमान् पराक्रमी पुरुष सब वैरियों को मिटाकर सूर्य और पृथिवी आदि लोकों पर प्रभाव जमाकर चक्रवर्ती राजा हुए हैं, वैसा ही सब मनुष्यों को होना चाहिये ॥३॥
टिप्पणी -
३−(अनेन) प्रसिद्धेन वेदरूपेण (इन्द्रः) प्रतापी सेनापतिः (वृत्रम्) अ० २।५।३। अन्धकारम् (अहन्) हतवान् (अनेन) (असुरान्) सुरविरोधिनो दैत्यान् (पराभावयत्) पराभूतान् विनष्टानकरोत् (मनीषी) अ० ३।५।६। मनीषया मनस ईषया स्तुत्या प्रज्ञया वा-निरु० ९।१०। मेधावी (अनेन) (अजयत्) जितवान् (द्यावापृथिवी) सूर्यभूलोकौ (उभे) द्वे (इमे) प्रत्यक्षे (अनेन) (अजयत्) (प्रदिशः) प्रकृष्टा दिशः प्राच्याद्याः (चतस्रः) चतुःसंख्याकाः ॥