अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 15
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - पुरस्ताद्बृहती
सूक्तम् - प्रतिसरमणि सूक्त
यस्त्वा॑ कृ॒त्याभि॒र्यस्त्वा॑ दी॒क्षाभि॑र्य॒ज्ञैर्यस्त्वा॒ जिघां॑सति। प्र॒त्यक्त्वमि॑न्द्र॒ तं ज॑हि॒ वज्रे॑ण श॒तप॑र्वणा ॥
स्वर सहित पद पाठय: । त्वा॒ । कृ॒त्याभि॑: । य: । त्वा॒ । दी॒क्षाभि॑: । य॒ज्ञै: । य: । त्वा॒ । जिघां॑सति । प्र॒त्यक् । त्वम् । इ॒न्द्र॒ । तम् । ज॒हि॒ । वज्रे॑ण । श॒तऽप॑र्वणा ॥५.१५॥
स्वर रहित मन्त्र
यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति। प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥
स्वर रहित पद पाठय: । त्वा । कृत्याभि: । य: । त्वा । दीक्षाभि: । यज्ञै: । य: । त्वा । जिघांसति । प्रत्यक् । त्वम् । इन्द्र । तम् । जहि । वज्रेण । शतऽपर्वणा ॥५.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 15
विषय - हिंसा के नाश का उपदेश।
पदार्थ -
(यः) जो (त्वा) तुझे (कृत्याभिः) हिंसाक्रियाओं से, (यः) जो (त्वा) तुझे (दीक्षाभिः) आत्मनिग्रह व्यवहारों से, (यः) जो (त्वा) तुझे (यज्ञैः) संयोगों से (जिघांसति) मारना चाहता है, (त्वम्) तू (इन्द्र) हे बड़े ऐश्वर्यवाले पुरुष ! (तम्) उस को (शतपर्वणा) सैकड़ों पालन सामर्थ्यवाले (वज्रेण) वज्र से (प्रत्यक्) प्रत्यक्ष (जहि) नाश कर ॥१५॥
भावार्थ - जो पाखण्डी मनुष्य उपद्रव करके अथवा कपट से आत्मनिग्रह और मित्रता आदि करके मारना चाहे, राजा उसको नाश करके प्रजा-पालन करे ॥१५॥
टिप्पणी -
१५−(यः) (त्वा) इन्द्रम् (कृत्याभिः) अ० ४।९।५। हिंसाक्रियाभिः (त्वा) (दीक्षाभिः) दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु-अ प्रत्ययः, टाप्। आत्मनिग्रहैः (यज्ञैः) संयोगव्यवहारैः (जिघांसति) हन्तुमिच्छति (प्रत्यक्) प्रत्यक्षम् (त्वम्) (इन्द्र) परमैश्वर्यवन् राजन् (तम्) उपद्रविणम् (जहि) नाशय (वज्रेण) (शतपर्वणा) स्नामदिपद्यर्त्तिपॄशकिभ्यो वनिप्। उ० ४।११३। पॄ पालने पूर्त्तौ च-वनिप्। बहुपालनयुक्तेन ॥