अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 9
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म्। तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम् ॥
स्वर सहित पद पाठय: । कृ॒णोति॑ । मृ॒तऽव॑त्सरम् । अ॑वऽतोकाम् । इ॒माम् । स्त्रिय॑म् । तम् । ओ॒ष॒धे॒ । त्वम् । ना॒श॒य॒ । अ॒स्या: । क॒मल॑म् । अ॒ञ्जि॒ऽवम् ॥६.९॥
स्वर रहित मन्त्र
यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम्। तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥
स्वर रहित पद पाठय: । कृणोति । मृतऽवत्सरम् । अवऽतोकाम् । इमाम् । स्त्रियम् । तम् । ओषधे । त्वम् । नाशय । अस्या: । कमलम् । अञ्जिऽवम् ॥६.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 9
विषय - गर्भ की रक्षा का उपदेश।
पदार्थ -
(यः) जो [रोग] (इमाम्) इस (स्त्रियम्) स्त्री को (मृतवत्साम्) मरे बच्चेवाली और (अवतोकाम्) पतितगर्भवाली (कृणोति) करता है। (ओषधे) हे ओषधि ! [अन्न आदि पदार्थ] (त्वम्) तू (अस्याः) इस [स्त्री] के (तम्) उस (कमलम्) कामना रोकनेवाले और (अञ्जिवम्) कान्ति [शोभा] हरनेवाले [रोग] को (नाशय) नाश कर ॥९॥
भावार्थ - मनुष्य प्रयत्न करें कि स्त्री उत्तम अन्न ओषधि आदि के सेवन से नीरोग रहकर बालक की पालना और फिर भी गर्भ की रक्षा करके कामना पूरी करती हुई शोभा बढ़ावें ॥९॥
टिप्पणी -
९−(यः) रोगः (कृणोति) करोति (मृतवत्साम्) मृतबालकाम् (अवतोकाम्) अवपन्नगर्भाम् (इमाम्) गर्भिणीम् (स्त्रियम्) (तम्) रोगम् (ओषधे) अ० १।३०।३। अन्नादिपदार्थ (त्वम्) (नाशय) निवारय (अस्याः) गर्भिण्याः (कमलम्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। कमु कान्तौ-विच्+अल वारणे-अच्। कामनावारकम् (अञ्जिवम्) सर्वधातुभ्य इन्। उ० ४।११८। अञ्ज व्यक्तिम्रक्षणकान्तिगतिषु-इन्। आतोऽनुपसर्गे कः। पा० ३।२।३। अञ्जि+वा गतिगन्धनयोः-क। कान्तिनाशकम्। शोभाहर्तारम् ॥