अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 22
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
द्व्यास्याच्चतुर॒क्षात्पञ्च॑पादादनङ्गु॒रेः। वृन्ता॑द॒भि प्र॒सर्प॑तः॒ परि॑ पाहि वरीवृ॒तात् ॥
स्वर सहित पद पाठद्विऽआ॑स्यात् । च॒तु॒:ऽअ॒क्षात् । पञ्च॑ऽपादात् । अ॒न॒ङ्गु॒रे: । वृन्ता॑त् । अ॒भि । प्र॒ऽसर्प॑त: । परि॑ । पा॒हि॒ । व॒री॒वृ॒तात् ॥६.२२॥
स्वर रहित मन्त्र
द्व्यास्याच्चतुरक्षात्पञ्चपादादनङ्गुरेः। वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात् ॥
स्वर रहित पद पाठद्विऽआस्यात् । चतु:ऽअक्षात् । पञ्चऽपादात् । अनङ्गुरे: । वृन्तात् । अभि । प्रऽसर्पत: । परि । पाहि । वरीवृतात् ॥६.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 22
विषय - गर्भ की रक्षा का उपदेश।
पदार्थ -
(द्व्यास्यात्) दुमुहे से, (चतुरक्षात्) चार आँखोंवाले से, (पञ्चपादात्) पाँच पैरवाले से, (अनङ्गुरेः) विना चेष्टावाले से। (वृन्तात्) फल पत्र आदि के डण्ठल से (अभि) चारों ओर को (प्रसर्पतः) रेंगनेवाले (वरीवृतात्) टेढ़े-टेढ़े घूमनेवाले [कीड़े] से (परि) सब ओर से (पाहि) बचा ॥२२॥
भावार्थ - मनुष्य दुःखदायी कुरूप दुष्ट कीड़ों से सदा रक्षा करे ॥२२॥
टिप्पणी -
२२−(द्व्यास्यात्) मुखद्वययुक्तात् (चतुरक्षात्) बहुव्रीहौ सक्थ्यक्ष्णोः०। पा० ५।४।११३। अक्षि-षच्। चतुर्नेत्रोपेतात् (पञ्चपादात्) पादपञ्चकयुक्तात् (अनङ्गुरेः) ऋतन्यञ्जिवन्य०। उ० ४।२। अगि गतौ-उलि, लस्य रः। चेष्टारहितात् (वृन्तात्) वृ वरणे-क्त, नुम् च। फलपत्रादिबन्धनात् (अभि) अभितः (प्रसर्पतः) प्रसर्पकात् (परि) (पाहि) (वरीवृतात्) वृतु वर्तने यङ्लुकि-पचाद्यच्। रीगृदुपधस्य च। पा० ७।४।९०। रीगागमः। कुटिलं वर्तनशीलात् क्रमेः ॥